________________ [ 231 ] व्याख्या-तावत्-तावन्तं कालं / प्रतीक्षस्व-प्रतीक्षां कुरु / यावत्, वयं-प्राहरिकाः / अवालबुद्धिम्अबालस्तरुणः वृद्धो वा स इव बुद्धिर्यस्य अबालस्य ज्ञस्य बुद्धिरिव बुद्धिर्यस्य तं तादृशम् / एतेन बोध्यत्वसम्भावनोक्ता / बालम्-एनं / विबोधयामः-स्वकार्ये अनुकूलयामः / इति-इत्थं / तै:-प्राहरिकैः / ईरित:कथितः / मन्त्री, प्रशशाम-शान्तोऽभूत् / हि-यतः / अधिपाः, साम्ना-सामवचनेन / प्रसाध्या:अनुकूलयितव्याः, भवन्ति // 105 // तस्य तद्वचनस्वीकारमाह-रक्षानियुक्ता इतिरक्षानियुक्तास्तमबूबुधस्ते, तथा यथामस्त स तद्वचस्तत् / ऊचे च तन्मे सुमते ! प्रदेयं, प्राप्नोमि यत्पाणिविमोचनेऽहम् // 106 // व्याख्या-ते, रक्षानियुक्ताः माहरिकाः / तं-मङ्गलकुम्भं / तथा-तेन प्रकारेण / अबुधन्बोधयन्ति स्म / यथा, स-बाल / तव , तद्वचः-मन्त्रिणः प्राहरिकाणाश्च वचनं यद्विवाहाथ तत् / अमंस्तमन्यते स्म / ऊचे च-कथितवाँश्च, पुनः / सुमते ! तव-वस्तु / मे-मझं / प्रदेयम् , यद्-वस्तु / अहम् पाणिविमोचने-करसम्मेलनानन्तरजायमानकन्यादानकर्मणि प्राप्नोमि, जैतुके इति भावः / / 106 // आमेति तस्य प्रतिपद्य सार - व्याहारमाकारपराद्धर्यमूर्तेः / वैवाहिकं धीसख एव सर्व, विधापयामास विधि विधिज्ञः // 107 // व्याख्या-आकारपरायमर्ते:-आकारेण परार्ध्या अनुपमेया मूर्तिः स्वरूपं यस्य तस्य / तस्यमङ्गलकुम्भस्य, सारः श्रेष्ठः यः व्याहारः वचनं तम् / सारव्याहारम्-"वचनं तु व्याहारः" इति हैमः / आम-एवमस्त्विति / प्रतिपद्य-स्वीकृत्य / विधिज्ञः-स। धीसखः-मन्त्री / सर्वमेव, वैवाहिक-विवाहसम्बन्धिनं / विधि-क्रियां / विधापयामास-कारयामास / / 107 // ___ अथ वैवाहिकविधिमेव वर्णयति त्रिभिः श्लोकैः प्रवाद्यमानेष्वित्यादि - प्रवाद्यमानेषु विचित्रभङ्गया, महामृदङ्गषु कलस्वनेषु / मार्दङ्गिकैर्द्रव्यमुपाददान - सत्तार्यमाणं स्वसुवासिनीभिः // 108 // योषासु भूषासु मनोहरासु, प्रकुर्वतीषु प्रवरासु गीतम् / अभ्यज्य तैलेन सुगन्धिना तं, हारिद्रचूर्णोपचितेन तेन // 109 //