________________ [ 23. ] अर्थम्-कार्य / समाचरेत-कुर्याद ? न कोऽपीत्यर्थः / तस्मादहमपि तथा नैव कर्तेति मङ्गलकुम्भोक्तिरिति भावः // 10 // अथ प्राहरिकाणां सामवचनैः मन्त्रिशमनमाह-विमुश्चेतिविमुञ्च सन्तापकरं प्रकोपं, कोशे कृपाणं क्षिप मन्त्रिराज ! / भवादृशा बालवधाय खॉ, किमाददाना न खलु त्रपन्ते ? // 103 // व्याख्या-मन्त्रिराज !, सन्तापकरम्-सब्ज्वरकारकम् 'सन्तापः संज्वरः" इति हैमः / बालवधेन तव सन्ताप एव भविष्यति, न तु कार्यसिद्धिरिति भावः / प्रकोपं-क्रोधम् / विमुश्च-त्यज / कृपाणंखङ्गं / कोशे-खगधान्यां / क्षिप-निवेशय / न तस्य हस्ते प्रयोजनमिति भाव. / भवादृशा:-बुद्धिमन्तः / समर्थाश्च / बालवधाय, खङ्गम्, बाददाना:-गृहन्तः / न, खलु पन्ते- लज्जन्ते / किम् ?-अवश्यं त्रपन्ते इत्यर्थः / बालवधस्य वीराननुरूपत्वात् पातकजनकत्वात् सन्तापकरत्वात् ब्रीडाजनकत्वाद्गर्हितत्वाच्चेतिभाव // 103 // ननु भवत्वेवम्, किन्त्वयं प्रगल्भः ममाज्ञां न मन्यते तस्य किं स्यादितिचेत्तत्राह-अवोचदिति - अवोचदज्ञानवशादबद्धं, बालः प्रवालच्छविदन्तवासाः / विदन् प्रभूणां पुरतः क एवं, वदेत्पिधत्ते प्रतिपद्धि दोषान् // 104 // व्याख्या-अज्ञानवशात् , प्रवालच्छविदन्तवासाः-प्रवालो विद्रुमः “विद्रुमः पुंसि प्रवाल पुग्नपुंसकम्" इत्यमरः / तद्वच्छविः कान्तिः “कान्तिद्युतिश्छविः" इत्यमरः / यस्य स ताहां दसयासोऽवरो यस्य स तादृशः रक्ताधर इत्यर्थः / “ओष्ठाऽधरौ तु रदनच्छदौ दसनवाससी" इत्यमरः / अधरो रदच्छदः दन्तवलं चेति हैमः / बालः-अत एव अज्ञानीत्यर्थः / अबद्धम्-अनर्थकम् , अविचायोसम्बद्वमुक्तमित्यर्थः, 'अबद्धम् स्यादनर्थकमि',त्यमरः / अवोचत् , कः, विदन्-विद्वान् , सन् / प्रभूणां-सामर्थ्यवतां / पुरतः अग्रे / एवं-कोपोत्पादकं, वाक्यं / वदेत्, हि-यतः / प्रतिपद्-ज्ञानं / दोषान्-अपराधान् / पिधत्ते-आच्छादयति, ज्ञानाभावे तु अपराधानपराधयोरविवेकादेवं बाल एव वदतीति, तेन तव कोपो न युज्यते, अझं प्रतिकोपस्याज्ञत्वापादकत्वादिति भावः // 104 / / ननु तथापि मत्कार्यसिद्धः क उपाय इति चेत्तत्राह तावत् प्रतीक्षस्वेतितावत् प्रतीक्षस्व बिबोधयामो, यावद्वयं बालमबालबुद्धिम् / इतीरितस्तैः प्रशशाम मन्त्री, सामप्रसाध्या ह्यधिपा भवन्ति // 105 //