________________ [ 229 ] कलव-लान्छनम् , 'कलङ्काको लाञ्छनश्चे' त्यमरः / अनुचितवचनं हि कुलं दूषयतोतिभावः / रचयत्सम्पादयद् / वचः-वचनं / किमुक्तम्-नैवं वक्तव्यम् सता इत्प्रर्थः // 19 // तद्वचसः युक्तिमुक्तत्वमेव दर्शयति-को नामेतिको नाम तत्कर्म विनिर्मिमीते, भूतं न यत् क्वापि न भावि यच्च / सचेतनः कः परिणीय कन्यां, प्रदातुमीहां तनुतां परस्मै // 10 // व्याख्या-कः, नाम-जनः / तत् , कर्म-कार्य / विनिर्मिमीते-करोति, किमित्याह-यत्-कर्म / कापि भृतं-वृत्तं / न, यच्च-कर्म / भावि-भविष्यत् / न-किं न तथा इत्याह / कः सचेतन:-बुद्धिमान् | कन्या, परिणीय-विवाह / परस्मै-अन्यस्मै / प्रदातुम् , ईहाम्-अभिलाषाम् / तनुतां-करोतु, न कोऽपि इत्यर्थः / एवञ्च न भूतं नाऽपि भावि न च वर्तमानमिति कालत्रयेऽप्यसम्भवद्वचोऽयुक्तमेवेति मयाऽनादरणीयमेवेतिभावः // 10 // ___ अथ तच्छुत्वा मन्त्रिचेष्टामाह-तद्वाचमितितद्वाचमन्तर्विनिवेश्य मन्त्री, च्छेत्स्यामि मूर्धानमिति ब्रुवाणः / पाणौ कृपाणं कलयन स पापात् , कृपापरैः प्राहरिकैर्यवारि // 101 // व्याख्या-सः, मन्त्री, तस्य-मङ्गलकुम्भस्य / वाचम्-वचनम् / अन्तर्विनिवेश्य-अवधार्य / मूर्धानम्-तव मस्तकं / च्छेत्स्यामि, इति-इत्थं / अवाण:-कथयन् / पाणौ-हस्ते / कृपाणम्-खड्गं / / कलयन्-धारयन् / कृपापरैः-दयालुभिः / प्राहरिकैः-रक्षापुरुषैः / पापात्-बालवधरूपापकृत्यात् / न्यवारि-निषिद्धः // 101 / / नन्वत्रैवं भवतीति चेत्तत्राह-देशे त्वदीयेतिदेशे त्वदीये यदि वा कुलेऽस्मिन् , प्रवृत्तिरेषा न तथापि मेऽहो / आयुष्मिकं वैहिकमीहमानः, समाचरेत् कः प्रतिषिद्धमर्थम् // 102 // व्याख्या-अस्मिन् देशे यदि वा त्वदीये कुले एपा-विवाह्य परस्मै कन्या प्रदानरूपा / प्रवृत्तिःव्यवहारः / तथापि तथा सत्यपि / मे-मम / न अर्हा-युक्ता, मदीये देशे कुले वा तथा व्यवहाराऽभावादिति भावः / आमुष्मिक-पारलौकिकशुभम् / ऐहिकम्-इहलोकशुभम् / वा ईहमान:-अभिलषन् , एतेन तथा प्रवृत्तिः आयुष्मिकैहिकयोर्दू षिकेति सूच्यते / क:-जनः / प्रतिषिद्धम्-लोकशास्त्रादिगर्हितम् /