________________ [ 228 ] अथ स्वार्थमिति यदुक्तं तत्पृच्छति-स्वार्थोऽपीतिस्वार्थोऽपि कस्ते सचिवेति पृष्टस्तेन न्यगादीत्पुनरेव मन्त्री / निवेदयिष्यामि तवाऽपि मुग्ध !, स्वार्थ कदाचित् स्वमनोऽनुमत्या // 97 // व्याख्या-सचिव ! कः,ते-तव / स्वार्थः-प्रयोजनम् / इति-इत्थं / तेन-मङ्गलकुम्भेन / पृष्टः, मन्त्री पुनः-भूयः / एव न्यगादीत-अवदत् / मुग्ध-सुन्दर ! बालत्वान्मूर्ख, इति 'मुग्धः सुन्दरमूढ़यो' रित्यमरःः / कदाचित्-अवसरं प्रेक्ष्येत्यर्थः / स्वमनसः अनुमत्या वृत्त्या / स्वमनोऽनुमत्या-स्वेच्छातः इत्यर्थः / तव अपि-स्वार्थम् / निवेदयिष्यामि-कथयिष्यामि, मा त्वरिष्ठा इति भावः // 97 / / अथ पुनः तत्कृतस्वार्थजिज्ञासामाह-गतेष्विति - गतेषु घस्रेषु कियत्स्वमात्यं, प्रस्तावमासाद्य स पृच्छति स्म / स्वार्थं तमाख्याहि ममानुवृत्ये -त्युक्तः स तेनाभिदधेऽभिसन्धिम् // 18 // ___व्याख्या-कियत्सु–कतिपयेषु / घस्रेषु-दिनेषु ‘घस्रो दिनाहनी', इत्यमरः / गतेषु-व्यतीतेषु / स:-मङ्गलकुम्भः / प्रस्तावम्-अवसरम्। 'प्रस्तावः स्यादवसरः', इत्यमरः / आसाद्य-प्राप्य / अमात्यं, पृच्छति स्म-किमित्याह / मम तं-त्वया पूर्वसूचितम् / स्वार्थम् अनुवृत्त्या-अनुरोधेन, 'अनुवृत्तिस्त्वनुरोध.' इति हैमः / यथातथामित्यर्थः / आख्याहि-कथय / इति-इत्थं / तेन-मङ्गलकुम्भेन / उक्त:-कथितः / सः-मन्त्री / अभिसन्धिम्-निजाशयम् / अभिदधे // 98 / / तच्छुत्वा मङ्गलकुम्भ प्रत्युत्तरमाह-श्रुत्वा तदाकूतेतिश्रुत्वा तदाकूतमुदारचेताः, स निःश्वसन दिक्करकोऽप्युवाच / आ युक्तमुक्तं भवता किमुक्तं, वचः कलङ्क रचयत् कुलस्य // 19 // व्याख्या-तदाकृतं-तस्य सचिवस्य आकूतम् अभिप्रायं / श्रुत्वा, दिक्करकः- युवा सः, “तलुनीदिक्करी” इति हैमः / पुलिङ्गे तु स्वार्थ के दिक्करकः / उदारचेता:-मनस्वी,अनौचित्यासहनः,असहिष्णुरित्यर्थः / सः, निश्वसन्-अवद्यश्रवणेन क्रोधात् दीर्घनिश्वासं मुञ्चन् / उवाच-किमित्याह-आ:-इति भर्त्सने खेदे च / भवता-त्वया / युक्तिमुक्तं-युक्त्या औचित्येन मुक्तं रहितम् , अनुचितमित्यर्थः, अतएव / कुलस्य