________________ [ 227 ] ददौ / सः-सचिवः / कुमाररूपं-कार्तिकेयतुल्यम् / कुमारं-बालं तम् / आलोक्य, स्वम्-आत्मानं / मुदे-हर्षाय, अदित, हृष्टोऽमृदित्यर्थः // 13 // अपूपुषत्तं सचिवोऽप्यजस्रं, स्निग्धानपानैः स्वकुमारवञ्च / प्रच्छन्नमाधाय निधानवत् स, देयार्थवत् प्राहरिकररक्षत् // 14 // व्याख्या-सः, सचिवः, अपि, तं-मङ्गलकुम्भं / स्वकुमारवत्-स्वबालवत्, एतेन पोषणातिशय उक्तः / स्निग्धानपान:-स्निग्धैः मधुरैः अन्नैः पक्वान्नादिभिर्भोज्यैः पानैः स्वादुरसादिभिश्च / अजस्रम्सन्ततम् / अपू पुषत्-पोषयति स्म। तथा निधानवत्-निधिवत् कोषमिव वा / प्रच्छन्नम्-गुप्तम् / आधाय-कृत्वा, यथाऽन्यो न विदेदिति भावः / देयाथैवत-दातव्यधनवत् / प्राहरिक-पहरे प्रहरे रक्षकैः पुरुषैः ! अरक्षत्-रक्षति स्म / यथा न पलायेतेति भावः / / 14 / / __ अथ मङ्गलकुम्भस्य जिज्ञासामाह-स एकदाइतिस एकदाऽप्रच्छदमात्यमेवं, वैदेशिकस्यापि विधीयते मे / किं गौरवं तात ! पुरी च केयं, किं नामधेयस्त्वमिह प्रसिद्धः // 15 // व्याख्या-स:-मंगलकुम्भः / एकदा, अमात्यमेवमपृच्छत् , तात ! वैदेशिकस्य-देशान्तरभवस्य अपरिचितस्यापि, मे-मम / कि-कुतः / गौरवं-सत्कारादि / विधीयते-क्रियते ? इयं, पुरी-नगरी / का-किं नामधेया ? त्वच, इह किनामधेयः-किमाख्यः,प्रसिद्धः,तव किं नामेत्यर्थः,इत्यपृच्छदित्यन्वयः // 95 // ____ अथ मन्त्रिकृतोत्तरमाह-मध्यप्यभाषिष्टेतिमन्त्र्यप्यभाषिष्ट विशिष्टबुद्धिः, स्वार्थ नते गौरवमादधेऽहम् / चम्पापुरीयं प्रथिता जगत्यां, तन्नाथमन्त्र्यऽस्म्यहमत्र वित्तः // 16 // व्याख्या-विशिष्टा विलक्षणा बुद्धिः यस्य स, विशिष्टबुद्धिः-धीमान् / मन्त्री अर्पि, अभाषिष्टजगाद / किमित्याह-अहं, हि, स्वार्थ-स्वकार्यसाधनार्थ / ते-तव / गौरवं-सत्कारम् / आदधे-करोमि / यद्वा नते इति पाठे तु नते नम्रे त्वयीत्यर्थः / इयं-वर्तमाना। जगत्यां-लोके / प्रथिता-प्रसिद्धा / चम्पापुरीनाम नगरी / अत्र-नगर्याम् / अहं, वित्त:-प्रसिद्धः 'ख्याते प्रतीतप्रज्ञातवित्तेति' हैमः / तन्नाथस्य चम्पापुराधीशस्य राज्ञः मन्त्री सचिवः / तनाथमन्त्री, अस्मि // 16 //