________________ [ 226 ] व्याख्या-तमः अन्धकारः / अपि. कथञ्चित-केनापि प्रकारेण / तथा प्रसृतम्-विस्तृतम् / यथा हंसः-प्रभाधीशः, सूर्यः / अपि दृश्य:-अवलोकनीयः / न अजनिष्ट-जातः, गाढ़ेन तमसा प्रभाधीशोऽपि सूर्यः अदृश्यतां गतः, अन्योऽदृश्यतां गतः इति किं वक्तव्यमिति भावः / ततः हि, भासां-तेजसाम् / अमावः तमः-इति / कणादेन-तदाख्यमुनिना / प्रोक्तं-कथितम् / कथञ्चित-पूर्वोक्तहेतुना / युक्तं-युक्तिसङ्गतम् / यदि हि भासामभावस्तमो न स्यात्तर्हि कथं तमसि सूर्यस्यादृश्यता सङ्गच्छेतेति भावः / / 90 // अथ मंगलकुम्भप्रवृत्तिमाह-विलोक्येतिविलोक्य सोऽथ ज्वलनज्वलन्त, न्यग्रोधभूमीरहमुत्तरेण / हृष्यत्तनुः शीतविकम्पमानोऽवतीर्य तस्मात्तमियाय देशम् // 11 // व्याख्या-अथ स:-मङ्गलकुम्भः / उत्तरेण-उत्तरभागेन / ज्वलनज्वलन्तं-ज्वलनेन अग्निना 'ज्वलनशिखिनौ' इति हैमः / ज्वलन्तं प्रकाशमानं / न्यग्रोधभूमीरुहं विलोक्य-वटवृक्षमवलोक्य "न्यप्रोधस्तुबहुपात् स्याद् वटः” इति हैमः / हृष्यत्तनु:-वह्निना शीतं निवारयिष्यामीत्येवमानन्दितगात्रः / शीतविकम्पमान:-शीतेन तुषारेण विशेषेण कम्पशीलः / तस्मात-वटात् / अवतीर्य-नीचैरागत्य / तं-ज्वलनज्वलन्तं / देशं-स्थानम् / इयाय // 11 // स स्थानपालैर्बहु तप्यमानः, शीर्षे प्रहारैरभिताडितश्च / एकेन तन्मन्त्रिवचो विचिन्त्याऽपसार्य तेभ्यो विजनेऽथ निन्ये // 92 // ____ व्याख्या-स्थानपालैः तत्स्थानरक्षकैः / बहु-अत्यन्तम् / तप्यमानः-कदर्थ्यमानः, चौरादिबुद्धथा। प्रहारैः-लगुडादिभिः / शीर्षे- मस्तके / अभिताड़ित:-आहतश्च / स:-मङ्गलकुम्भः / एकेन-अन्यतमेन, केनचित्पुरुषेण / तत-पूर्वसूचितं / मन्त्रिवचः, विचिन्त्य-स्मृत्वा / तेभ्यः-स्थानपालेभ्यः / अपसार्यदूरीकृत्य / अथ-पश्चात् / विजने-एकान्ते / निन्ये-नीतः, रहस्यभङ्गो माभूदिति भियेतिभावः // 92 / / अथ सचिवाय तस्य समर्पणमाह-क्षणमितिक्षणं कृशानावकृशाशयस्तं, स तापयित्वा सचिवाय मछु / समर्पयामास कुमाररूपं, कुमारमालोक्य मुदेऽदित स्वम् // 13 // ___ व्याख्या-सः, अकृशाशयः-उदारः, स्थानपालः / तं-मंगलकुम्भं / क्षणं, कृशानौ-अग्नौ / तापयित्वा-उष्णतामापाद्य, शीतनिवारणार्थमिति भावः / म क्षु-शीघ्रमेव / सचिवाय, समर्पयामास