________________ [ 225 ] व्याख्या-प्रवर्त्तमान-विद्यमाने / असमाने-असाधारणे / अभ्युदये-सम्पदि उदये च, सति / ये, के, अपि. स्वामिना पुरस्क्रियन्ते-सत्क्रियन्ते, अग्रे क्रियन्ते च / ते-पुरस्कृताः / तं -स्वामिनम्। अनुगच्छन्ति-अनुसरन्ति, सुखदुःखयोः सहचारिणो भवन्ति, कृतज्ञतयेति भावः / तथाहि-अत एव / प्रभादिनौ-प्रभा सूर्यस्य कान्तिः दिनञ्च / भानुमता-सूर्येण / सह, अस्तं-पर्यवसानं / यात:-प्रामुतः, पालितानां तदेवोचितमिति भावः / अत्र प्रभादिनयो स्तमनं प्रसिद्धम् किन्तु सूर्यस्यैव, प्रभादिनयोश्च तद्वर्णनात् तदनुपाणिता सहोक्तिः, सहार्थबलाद्धि अत्रास्तशब्दः अन्तार्थस्य अदृष्टत्वार्थस्य च वाचकः, तल्लक्षणं. यथा-"सहार्थस्य बलादेकं यत्र स्याद्वाचकं द्वयोः, सा सहोक्तिर्मूलभूताऽतिशयोक्तिर्यदा भवेत्” इति // 87 / / जगति न किमपि स्थिरमित्याह - सुतो यदीय इतिसुतो यदीयः स यमः प्रसिद्धः, पद्मापतेर्यः स्वयमेव चक्षुः / प्रभुर्ग्रहाणामपि यः समेषां, हन्तास्तमेतीह स चेत्स्थिरं किम् // 88 // __ व्याख्या - यदीयः-यस्य / सुत:-पुत्रः “अर्कसूनुर्यमः” इति हैमः / सः लोकान्तकरत्वेन प्रसिद्धः / यमः-कृतान्तः, तथा / यः, स्वयमेव-स्वतोऽपि / पद्मापतेः-विष्णोः, जगत्स्रष्टुः / चक्षुः-नेत्रं, प्रसिद्धः / यः, समेषां-सर्वेषां / ग्रहाणामपि, प्रभुः-स्वामी / हन्तेति चित्रे / इह-संसारे / स चेद,अस्तम् एतियाति, तर्हि / स्थिरं-शाश्वतम् / किम् ?-न किमपि नित्यमित्यर्थः / तादृशस्य लोकाद्भुतगुणसम्पन्नस्य चेन्न स्थायिता तर्हि अन्येषाम् अल्पाल्पशक्तिमतां का चर्चेति भावः // 88 / अथ मङ्गरकुम्भस्य भिया वटे एवाऽवस्थानमाह-तमस्तताविति--- तमस्ततो विस्तृतिमाश्रिताया - मधःस्थितं श्वापदमेव किञ्चित् / . व्यापादयिष्यत्यचिरेण मामि - त्यवेत्य सोऽस्थास्तिमितस्तथैव // 89 // व्याख्या-तमस्ततो-तमिस्रायाम् 'तमिस्रा तु तमस्ततावि'त्यमरः / विस्तृतिम्-विस्तारम् / आश्रितायाम्-अवलम्बितायाम् सत्यां, गाढ़ान्धकारे जाते इत्यर्थः / अधः-वटमूले / स्थितं माम् किञ्चिद्व्याघ्राद्यऽन्यतमम् / श्वापदं-हिंस्रजन्तुः / अचिरेण-शीघ्रमेव / व्यापादयिष्यति-मारयिष्यति / इतिइत्थम् / अवेत्य-विचार्य / सः-मंगलकुम्भः / तथैव-यथास्थित एव / स्तिमितः-सङ्कुचितः / अस्थात्तस्थौ / / 8 / / अथ तमो वर्णयति-तथा कथश्चिदितितथा कथञ्चित् प्रसृतं तमोऽपि, दृश्यो न हंसोऽपि यथाजनिष्ट / भासामभावो हि तमोऽपि युक्त, प्रोक्तं कणादेन ततः कथञ्चित् // 90 //