________________ / 224 ] सरोजिनीनाथ-दिनाधिनाथ - प्रभाधिनाथ - ग्रहनाथमुख्यैः / / विवर्णना यस्य बभूव शब्दैः, स हाऽस्तमेति स्थिरमाः परं क्रिमः // 85 // . व्याख्या-सरोजिनीनाथदिनाधिनाथप्रभाविनायग्रहनाथमुख्यैः-सरोजिनी कमलिनी तस्याः नाथः विकाशकत्वादीशः, दिनस्य अधिनाथः तत्करत्वादीशः, प्रभाधिनाथः प्रभाकरत्वाद प्रभाधीशः, ग्रहाधिनाथः भौमादिमहेश्वरश्चेत्येते शब्दाः मुख्य येषु तैः तादृशैः / शब्दैः-इतरत्राव्यवहृतैः वचोभिः / यस्य, विवर्णनास्तुतिः / बभूव, स:-सूर्यः / हा-खेदे "हा शोके विषादे च", "अव्ययो हा स्मृतः शोके तथा दुःखविषादयोः" एकाक्षरनाममालायां / अस्तमेति, आ:-वाक्यपूरणे, "भा वाक्ये' इति एकाक्षरकोशे / परम्अन्यत् / किं, स्थिरम्-चिरस्थावि भवेत् ? न किमपि / मुचनामृतविशेषणयुक्तस्य चेन्न स्थिरत्वम् तर्हि अन्याय का वार्ता ? जगति सर्व विनाशशीलमेवेति भांकः / सूर्यस्यास्थिरत्वेनान्यस्य सामान्यस्यास्थिरत्ववर्णनाद्विशेषण सामान्यसमर्थनमोऽर्थान्तरन्यासनामालङ्कारः || अथ सूर्यस्यारुणत्वं वर्णयति- इदमिति- इदं कराणां स्फुरतां सहस्र, पुरस्कृतं यन्मयका, पुरैव / उपेक्षतेऽस्मिन्समयेऽपि तन्मामिति क्रुधाऽऽरुण्यमधत्त योऽर्कः // 86 // व्याख्या-मयका-मया सूर्येण / यत्, स्फुरखां, कराणां-किरणानां हस्तानाञ्च, केषाश्चित्पुरुषाणाञ्च / सहस्रं पुरा-प्रागेव / पुरस्कृतम्-अप्रेसरं कृतम् सूर्योदयात्यागेव तत्प्रभोदयो जायते, हस्ता अपि पूर्वत एव धृता भवन्ति / अथ च धनदानादिना सत्कृतम्, तदिदं करसहस्रं कश्चित्पुरुषश्चापि / अस्मिन्, समयेअस्तमनसमये, विपत्तिसमये च / मां-पुरस्कर्तारम् / उपेक्षते-त्यति, साहाय्यं नार्पयति / इति-हेतोः / क्रुधा-कोपेन / यः, अर्कः-सूर्यः / बारुण्यम्-रक्तत्वम् / अधत्त-धृतवान्, सूर्यः अस्तमनकाले रक्तो जायते, कराश्च तस्य संक्षयंतीतिभाव.-संक्षिपयन्ति इति भावः / अत्र पुरस्कृतम् उपेक्षते इत्यादिविशेषणगत्या * अकृतज्ञपुरुषव्यवहारस्य करेषु समारोपात् समासोक्तिः, स चाक्रोधकृतारुण्यस्याभावेऽपि सूर्ये तत्सम्बन्धोक्तिरूपातिशयोक्तरङ्गम् इति संकरः // 86 // अथ सन्ध्याऽभूदित्याह-प्रवर्त्तमान इतिप्रवर्त्तमानेऽभ्युदयेऽसमाने, ये स्वामिना केऽपि पुरस्क्रियन्ते / तं तेऽनुगच्छन्ति तथा हि यातः, प्रभादिनौ भानुमता सहास्तम् // 87 //