________________ [219] भावी हि दुरतिक्रम इत्याह-शुभोदय इतिशुभोदयो वाऽप्यशुभोदयो वा स्याद्देहभाजां नियतेनियोगात् / न कोऽपि शक्नोत्यतिवर्तितु तं, कदाचनाच्छायमिव स्वकीयम् // 71 // ___ व्याख्या-देहभाजाम्-प्राणिनाम् / शुभोदयो वा, अशुभोदयो वा, नियते:-विधेः / नियोगावनिदेशात् / स्याव-नाऽन्यस्य तत्राधिकार इति भावः / कोऽपि-जनः / तं-शुभोदयादिकम् / स्वकीयं-निजं / बाछायम्-अनातपमिव, कदाचन-कदापि / बतिवर्चितुम्-अतिक्रमितुं न शक्नोति, अवश्यं भाविभावानां प्रतीकारो न विद्यते इति भावः / / 71 // अथ भाविनः प्रवृत्तिमेवाह-अत्रान्तरे इतिअत्रान्तरे प्रादुरभूत्कुतश्चिद्, वात्या हरन्ती विततं प्रकाशम् / रजोभिरान्ध्यं दिशती जनानां, विलोचनान्तः पतनप्रगल्भैः // 72 // व्याख्या-अत्रान्तरे-अस्मिन्नेवावसरे / विततं-व्याप्त / प्रकाशम्-आलोकम् / हरन्ती-नाशयन्ती / जनानां-लोकानाम् / विलोचनान्तः पतनप्रगल्भैः-विलोचनस्य नेत्रस्य अन्तः पतने प्रगल्भैः समर्थः / रजोनि:धूलिकणैः / आन्ध्यम्-अन्धताम्, अनवलोकित्वं / दिशती-कुर्वती / वात्या-वातसमूहः / कुतश्चिद्कुतोऽपि / प्रादुरभूत् // 72 // अथ वात्यायाः कृत्यमाह-स वात्ययोत्पाट्येतिस वात्ययोत्पाट्य तया कुमारः, सुमार्थमिङ्गनिजवाटिकायाम् / चम्पापुरीसनिहिताटवीभू-भागे क्षणाद्गन्ध इव व्यमोचि // 73 // व्याख्या-तया-प्रादुर्भूतया / वात्यया-वातसमूहेन, चक्रवातेन / सुमार्थम्-पुष्पार्थम् / निजवाटिकायाम्, इंगन्-गच्छन् / स, कुमारः-मङ्गलकुम्भः / उत्पाठ्य-उरिक्षप्य / गन्धः-आमोद, इव-यथा गन्धः पवनेन नीयते तथा / क्षणात चम्पापुरीसभिहिताटवीभूभागे-चम्पापुरीसन्निहितायाः अटव्याः वनस्य भूभागे प्रदेशे / व्यमोचि-मुक्तः, तत उत्पाट्य तत्र तं प्रापयत् // 73 // अथ तद्वनं वर्णयति--विभीषणमिति