________________ [ 220 ] विभीषणं यत्र विनैव लङ्कां, पश्यन्ति रामाकलितं जौघाः। हरीश्वरो यत्कपिभिः परीतः,कचित् क्वचित् खेलति निर्विशङ्कम् // 74 // व्याख्या-यत्र-वने / जनौषा:-लोकसमुदायाः / लङ्कां-तदाख्यनगरीम् / विनैव, रामाकलितंरामेण दाशरथिना आकलितं युक्तम्, अथ च रामाभिः स्त्रीभिः युक्तम्, 'रामा रमणी' त्यमरः / विभीषणम्तदाख्यं रावणानुजम्, अथ च विशेषेण भीषणम् घोराकृतिशीलं, किरातादिकं / पश्यन्ति,यत्-यत्र च / कचित् क्वचित , कपिभिः-वानरैः / परीता-समन्वितः। हरीश्वरः-वानराधीशः / निर्विशङ्क-निर्भयम्, जनसञ्चाराभावादिति भावः / खेलति-क्रीडति / अत्र लङ्कां विनैव विभीषणादेः वर्णनेन श्लेषानुप्राणितः विभावनाऽलङ्कारः / / 74 // भीतिं दधाना इव सूरपादा, विन्दन्ति यत्र प्रसरं न किञ्चित् / अभ्रंकषोर्वीरुहसन्ततीनां, छायाच्छलस्थानतमः प्रपञ्चात् // 75 // व्याख्या-यत्र-वने / सूरपादाः-सूर्यकिरणाः तेजस्विचरणाश्च / अभ्रङ्कषोर्वीरुहसन्तीनाम्-अभ्रङ्कषाणाम् गगनोल्लेखिनाम् उर्वीरुहाणाम् क्षितिरुहाणाम् सन्ततीनां पंक्तीनां / छायाच्छलस्थानतमःप्रपञ्चात्छाया एव छलस्थानं, वादिनिग्रहस्थानम् तत्कृतस्य तमसः अन्धकारस्य उत्तराप्रतिपत्तिरूपस्याज्ञानस्य च प्रपञ्चादाधिक्यात् / भीति-भयं / दधाना इव-अन्धकारे हि जनाः भयं प्राप्नुवन्ति, अज्ञाने सति च पराजयाशङ्कया प्रतिवादिनोऽपि बिभ्यति, लक्ष्यमाणाः / किञ्चित् प्रसरं-प्रवेशम्, अवसरञ्चोत्तरदानार्थम् / न-नैव / विंदति-लभन्ते / गाढ़ान्धकारपूर्ण तद्वनमिति भावः / अत्र विशेषणगत्या सूरपादेषु प्रतवादिव्यवहारप्रतीतेः रूपकश्लेषोजिवितसमासोक्त्यनुप्राणितोत्प्रेक्षाऽलङ्कारः / / 75 / / . . अथ तत्र मङ्गलकुम्भप्रवृत्तिमाह-तस्मिन् इतितस्मिन्नविज्ञातहरिद्विभागो, बभ्राम पञ्चाननवत् स वीरः / विमार्गयन्मार्गमुपैतुकामो, ग्रामं पुरं वा पृथुगोकुलं वा // 76 / / व्याख्या--तस्मिन्-वने / अविज्ञातहरिद्विभाग:-अज्ञातः अनवगतः अबोधितः हरितां दिशां विभागः पूर्वादिरूपः येन सः, अन्धकारादिना दिङमोहवानित्यर्थः / सः वीर:-उत्साही मंगलकुम्भः /