________________ [ 217 ] देवस्य कस्यापि वचः किमेतदत्यस्य कस्याप्यथवा गभीरम् / विद्याधरस्याप्यववद्यविद्या-विद्योतमानाशयकस्य, किं वा ? // 65 // .... व्याख्या-एतत्-संद्यः श्रुतम् / गभीरम्-उच्चघोषवद् वचः / किमिति-प्रश्ने वितर्के वा / कस्यापिअलक्षितस्य / देवस्य, अथवा, कस्यापि, दैत्यस्य, किंवा-अथवा, अनवद्यया विशुद्धया विद्यया आकाशगमनादिविद्यया विद्योतमानः प्रकाशमानः आशयः हृदयं यस्य सः तस्य / अनवद्यविद्याविद्योतमानाशयकस्म विद्याधरस्य,, अपि-एवार्थे, एवं विचिन्तयदिति पूर्वेणान्वयः // 65 // वितर्कान्तरमाह-सिद्धस्य कस्यापीति - सिद्धस्य कस्यापि किमेतदाहोस्क्चिारणस्य व्रतचारिणः किम् ? / कार्य निरालम्बनमेव न स्वान्नाकारणं किञ्चिदवेक्ष्यते. हि // 66 // व्याख्या-एतत्-वचः / कस्यापि सिद्धस्य-सिद्धपुरुषविशेषस्य / किमिति-वितर्के ! आहोस्वित्अथवा / चारणस्व-विद्याचारणस्य जड्याचारणस्य वा / व्रतचारिणः-मुनेः / किरा ?-नन्वेतादृशवितर्को. ऽनक्सरः इत्यत आह-कार्यम्, निरालम्बनम्-आभयं विना ! न स्यात् अत्र तु आकाशे शब्दः, तत्र न किमप्यालम्बनं भवति ऋते देवादेरिति वितर्कः सङ्गत एवेति भावः / एतादृशवचनेऽपि केनाऽपि कारणेमावश्यं भवितव्यम्, कुत इत्याह-हि-यतः / अकारणम्-हेतुं विना / किश्चिव-किमपि कार्यम् / न, अवेक्ष्यतेअवलोक्यते, अतः व्याप्त्या एतद्वचनेऽपि केनाऽपि कारणेनावश्यं भवितव्यमित्यर्थः // 66 // _अथ तस्याप्रतिपत्तिमाह-परं नेतिपरं न युक्तिव्यतिरिक्तभावात्, स्वान्तं प्रतीतिं दधते ममात्र / निवेदयिष्यामि विशेषतोऽदस्तथापि पित्रे सदनं गतः सन् // 67 // व्याख्या-परं-किन्तु / अत्र-तादृशोद्वाहविषये / युक्तिव्यतिरिक्तभावा-युक्तेः व्यतिरिक्तभावात् व्यतिरिक्तत्वात् अभावादित्यर्थः / नहि विवाहविषयिणी वार्ताऽप्यद्यापि श्रुतेति कथं विवाहो भवितेति, तत्र युक्त्यभाव इति भावः / मम, स्वान्तं-मनः, 'स्वान्तं हृन्मानसं मनः' इत्यमरः / प्रतीति-विश्वासं / न. दधते-बिभर्ति / तथापि-मम प्रतीत्यभावेऽपि / अद:-सञ्जातवृत्तम् / सदन-गृहं / गतः सन, पित्रे, निवेदयिष्यामि-कथयिष्यामि // 67 //