________________ [ 216 ] बुद्धिमान् / यः कश्चित्, कुमार:- बालः / आगच्छति-समेयात् / सः–कुमारः / समानीय, मे-मझं / समर्पणीयः-दात्तव्यः // 61 // . प्रकुर्वतेदं भवतो मदीयं, प्रयोजनं निर्मितमेव सर्वम् / एकं समाहूय स वाजिशालाध्यक्षं समादिक्षदिति प्रसन्नम् // 62 // व्याख्या-इदं-कुमारानयनरूपकार्यं / प्रकुर्वता, भवता-त्वया / मदीयं, सर्वमेव, प्रयोजनं-कार्य। निर्मितं-कृतम्, तदानयनेन च मम सकलेष्टसिद्धिरिति भावः / इति-एवम् / एक-मुख्यम् / प्रसन्नं दृष्टं / वाजिशालाध्यक्ष-मन्दुरापालकं / समाहूय, स-सचिवः / समादिक्षत्-आदिष्टवान् // 62 / / . . ::; अथ देवतायाः कुमारानर्यनवृत्तमाह-सा देवतेतिसा देवतापि' -प्रतिपन्ननिष्ठा, गत्वोजयिन्यां सुखराजधान्याम् / व्योम्नि स्थिता तद्वनपार्श्वतोऽदः, पुरोऽवदन मङ्गलकुम्भकस्य // 63 // ___ व्याख्या-प्रतिपन्ननिष्ठा-प्रतिपन्ने शरणगे निष्ठा शुभभावना यस्याः सा भक्तप्रिया / सा. देवताऽपि. सुखा सुखसम्पन्ना या राजधानी तस्याम् सखराजधान्याम्, उज्जयिन्यां-तदाख्यनगर्यां / गत्वा, व्योम्नि-आकाशे / स्थिता-अन्तर्हिता एवेत्यर्थः / तद्वनपार्श्वत:-तस्य मङ्गलकुम्भपुष्पानयनोहेश्यस्य वनस्योपवनस्य पार्श्वतः समीपे / मंगलकुम्भकस्य, पुर:-अग्रे / अदः-वक्ष्यमाणम् / अवदत्-जगाद / / 63 // .. किं जगादेत्याह-अवक्रयेणैषेतिअवक्रयेणेष कुमार एवोद्विक्ष्यते राजसुतां स्वरूपाम् / इत्यन्तरिक्षे स वचो निशम्य, व्यचिन्तयद्विस्मित एव चित्ते // 64 // व्याख्या-एषः-विद्यमानः / कुमारः, अवक्रयेण-द्रव्यादिना विनिमयेन / एव-न तु यथाविधि / स्वरूपाम्-सुन्दररूपवतीम् / राजसुतां-राजकुमारीम् / उद्विक्ष्यते-परिणेष्यते / इति-इत्थम् / अन्तरिक्षेआकाक्षे / वचः-वचनं / निशम्य-आकर्ण्य / स-मंगलकुम्भः / चित्ते, विस्मित:--कुतः किमभिप्रायोऽयं शब्दः इत्येवंचकितः / एव व्यचिन्तयत् - दध्यौ // 64 // ... अथ तस्य चिन्तामाह-देवस्य कस्यापीति-: