________________ [ 214 ] अथ देव्याः प्रतिवचनमाह-विज्ञापनामितिविज्ञापनां तस्य निवेश्य चित्तेऽभिधीयते देवतया तया स्म / त्वन्माननावासितमानसाऽहं, सर्व विधातास्मि तदेतदाशु // 55 // व्याख्या-तस्य-सचिवस्य / विज्ञापनां-निवेदनम् / चित्ते, निवेश्य-विचार्य / तया, देवतयादेव्या। अभिधीयते स्म-कथ्यते स्म / त्वन्माननावासितमानसा-तव या मानना सेवा तया वासितं तृप्तं मनः यस्याः सा तादृशी, त्वत्सेवासन्तुष्टा / अहम्, तदेतत्-स्वदुक्तं / सर्वम् आशु-शीघ्रमेव / विधातास्मिकर्तास्मि, श्वस्तनोत्तमपुरुषेकवचनम् त्वदुक्तं सर्व सम्पादयिष्यामीत्यर्थः / / 55 // त्वयाऽऽनीतः कुमारः क लभ्यते इत्याशङ्कायामाह श्लोकयुग्मेन-अस्याः पुरोदरत इत्यादिअस्याः पुरो दूरत एव कोऽपि, त्वन्मन्दुरापालतटस्थ एव / यो मन्दुरासनिहितः कुमारः, स्वरूपसन्तर्जितमाररूपः // 56 // अताड्यजाध्यज्वरपीड्यमानः, समेत्य सन्तापयते कृशानौ / आप्तेन गुप्त रभसा तमानाय्योद्वाहये राजसुतां यथेच्छम् // 57 // व्याख्या-अस्या:-वसतेः / पुर:-अग्रे। यद्वा अस्याःपुर:-एतन्नगर्याः / अदूरत एव वन्मन्दुरापालतटस्थ एव-तव मन्दुरापालस्य वाजिशालारक्षकस्य तटस्थः समीपस्थ एव / मन्दुरायाः वाजिशालायाः 'वाजिशाला तु मन्दुरा' इत्यमरः / सन्निहितः निकट एव / स्वरूपसन्तर्जितमाररूपः- स्वरूपेण स्वसौन्दर्येण 'रूपं स्वभावे सौन्दर्य', इत्यमरः। सन्तर्जितम् तिरस्कृतम् मारस्य कामदेवस्य रूपं सौन्दर्य येन स तादृशः, कन्दर्पादप्यधिकसुन्दरः / य:-कोऽपि / कुमार:-बालः अताब्यजाड्यज्वरपीब्यमान:-अताड्येन अप्रति रोध्येन, असझेन इत्यर्थः, जाड्यस्य शैत्यस्य न्वरेण रोगेण पीड्यमानः बाध्यमानः, अत एव / समेत्य-आगत्य / कृशानौ-अग्नौ। सन्तापयते-उष्णतां नयति / तं-कुमारं / रभसा- वेगेन, रभसो वेगहर्षयो रित्यमरः / आप्तेन-विश्वस्तेनानुचरेण / गुप्तं यथा स्यात्तथा / आनाय्य-नाययित्वा / यथेच्छम्-सुखेन / राजसुनाराजकुमारीम् / उद्वाहये:-त्वं विवाहयेः // 56-57 // अथ देन्यन्तर्धानमाह-तमेवमुक्त्वेतितमेवमुक्त्वा कुलदेवताऽसौ, तिरोदधे नम्रजनानुकम्पा / विधित्सवः कार्यमिहार्यचित्ता, भृत्यं हि किं नाम न शिक्षयन्ते // 58 //