________________ [ 213 ] उपार्जितं येन यदेव कर्म, शुभाशुभ तेन तदेव भोग्यम् / किं नान्यथा पुत्रसुखेन वप्ता, वस्तुः सुखेनैव सुतः सुखी वा ? // 52 // .. व्याख्या-यनैव-कळ / यत् शुभाशुभं-शुभम् अशुभं वा / कर्म उपार्जितम्-सश्चितम् / तेनैव-कर्ता। तत्-कर्म / भोग्यम; विपक्षेऽनुपपत्तिमाह- अन्यथा-अन्येन कृतस्यान्येन भोगे पुत्रसुखेन,वप्ता-पिता / वस्तु:पितुः / सुखेनैव, सुतः-पुत्रो / वा सुखी, किं न ?-कथं न भवति ? तस्मान्नान्यकृतमन्यभोग्यमिति नाहं तथाकर्तुं समर्था, अदृष्टव्यापारस्य सर्वथाऽप्रतिरोध्यत्वादिति भावः / / 52 // ननु तर्हि त्वत्तः किं प्रार्थनीयमित्यत आह--एतदितिएतत्परित्यज्य ततोऽपरं त्वं, हृदा समालोच्य वरं वृणीष्व / नाऽस्वामितां स्वाम्यऽपि विन्दतेऽत्र, प्रसाधयन साध्यमहो ! स्वसाध्यम् // 53 // व्याख्या-तत:-तस्मादुपरिष्टाव हेतोः / त्वम्, एतत्-पूर्वोक्तं / परित्यज्य, हृदा-मनसा / समालोच्य-विचार्य / अपरम् - अन्यत् / वर-प्रार्थनीयं / वृणीष्व-याचस्व / साध्यम्-सम्पादनयोग्यं / स्वसाध्यंनिजकार्य / प्रसाधयन्-सम्पादयन् / स्वामी समर्थोऽपि ।'अस्वामिताम्-सामर्थ्य / न विन्दते-प्राप्नोति / स्वसाध्यकार्य साधयन्नेव शक्तः शक्तः, अन्यथा तु अशक्त एव स्यात्, तस्मात् , मत्साध्यमेव वरं वृणीष्वेति भावः / अहो इति सहेतुकत्वे / नह्यसाध्ये प्रवर्तितव्यमितियावत् // 53 // अथ सचिवस्य वरान्तरयाचनमाह-ऊचे स यद्येवेतिऊचे स यद्येव मतं कुमारं, मान्ये ! समानीय समर्पयस्व / योऽवक्रयेणापि नरेन्द्रकन्यां, विवाह्य मह्य ददते प्रसह्य // 54 // ___ व्याख्या-स:-सचिवः / ऊचे-उवाचं / मान्ये !-पूज्ये ! देवि / यदि-एवं रोगक्षयासम्भवस्तहि / मतं-विवाहोपयुक्तं / कुमारं-वरान्तरं / समानीय, समपयस्त्र-ददस्व। ननु तेन तव को लाभ इति चेत्तत्राह-यः-कुमारः / अवक्रयेण-विनिमयेन द्रव्यदानेनाऽपि वा भाटकेनेतियावत्, 'मूल्ये वस्नाधेवक्रया' इति हैमः, 'अवक्रये भाटकः' इति शेषः / नरेन्द्रकन्या, विवाह्य प्रसह्य-हठात् / मह्यं, ददतेददेत // 54 //