________________ [212 ] तव प्रसादात, घनसारसारात-घनसारः कपूर इव सार स्थिरांशः यस्य तादृशात् भेषजात्, यद्वा घनसारस्य कपूरस्येव सारा प्रधानाव, प्रसादादित्यस्य विशेषणम् / मत्पुत्रकायस्थितकुष्ठगन्धः-मम पुत्रस्य काये शरीरे स्थितस्य कुष्ठस्य रोगविशेषस्य गन्धः सम्बन्धः 'गन्धो गन्धक आमोदे लेशे संबंधगर्वयोः,' इति विश्वः / क्षयं-नाशं / प्रयातु-प्राप्नोतु, कुष्ठो विनश्यत्वित्यर्थः // 49 // अथ देवीकृतोत्तरमाह-तदुक्तमाकयेतितदुक्तमाकर्ण्य सकर्णसेव्या, देव्याऽऽह सा स्म स्मितपूर्वमेवम् / रोगक्षयं कर्तुं महं न शक्ता, शक्ताऽपि पुत्रस्य तवादिभक्त ! // 50 // . व्याख्या-तदुक्तं-तस्य सचिवस्योक्तं वचनम् / आकर्ण्य-श्रुत्वा / सकर्णसेव्य!-सकर्णैः विद्वद्भिः सेव्या / सा,देवी,स्मितपूर्वम-ईषद् हसितं पूर्वं यस्मिन् कर्मणि तद्यथास्यात्तथा, विहस्येत्यर्थः / एवं-वक्ष्यमाणप्रकारम् / आह स्म-अवोचत् / आदिभक्त !-प्रधानसेवक ! शक्ता-सामर्थ्यवती / अपि, अहं,तव पुत्रस्य, रोगक्षयं कत्तुं न शक्ता // 5 // ननु विरुद्धमेतत्, शक्ता हि अवश्यं रोगक्षयमपि कर्त्त शक्तव, अन्यथा अशक्तेत्येव कथं नेति चेत्तत्राह सुरासुराधीशनतक्रमोऽपीतिसुरासुराधीशनतक्रमोऽपि, विज्ञानसम्पत्तिविभूषितोऽपि / . नैवाऽन्यथाकत्तु मलम्भविष्णुर्जिनोऽप्यभुक्त्वा निजकर्मजातम् // 15 // व्याख्या-सुरासुराधीशनतक्रमोऽपि-सुराणामसुगणाश्चाधीशैः इन्द्रैः नतौ प्रणतो क्रमौ चरणौ यस्य तादृशोऽपि सर्वाधीशोऽपि / एतेन सर्वसामर्थ्यवत्त्वं सूचितम् / विज्ञानसम्पत्तिविभूषितोऽपि-विज्ञानं विशिष्ट सर्वोत्तमं ज्ञानं विज्ञानं केवलज्ञानं तद्रूपसम्पत्या विभूत्या विभूषितः, सर्वज्ञोऽपीत्यर्थः / एतेनोपायज्ञत्वं सूचितम्, नहि सर्वज्ञः कर्मक्षयोपायानभिज्ञो भवितुमर्हति / जिनः-वीतरागोऽपि, निजकर्मजातम्-स्वीयं कर्मजातम् कर्मसमूहम् / अभुक्त्वा-भोगमकृत्वा / अन्यथाकत-नाशितुं / नैव, अलं भविष्णुः-समर्थः, / यत्र तादृशो जिनोऽप्यसमर्थः तत्र का चर्चा, तत्सेविकानामस्मादृशां देवीनामिति भावः // 51 // ननु कर्मणो भोगादेव क्षय इति मन्ये, किन्तु तव सामर्थ्याच एकेन कृतमन्यो भुमक्त्विति चेत्तन्नेत्याह ... उपार्जितं येनेति