________________ . [ 211 ] व्याख्या-अब-शयनान्तरम् / तद्धयानकाष्ठाचलितासना-तस्य मन्त्रिणः या ध्यानस्य काष्ठा पराभूमिः तया चलितम् कम्प्रमासनं यस्याः सा तादृशी, तद्ध्यानप्रभावाकृष्टा / प्रमापूरहतान्धकारा-प्रभाणां निजतेजसां पूरेण प्रवाहेण हतं विनाशितमन्धकारं यया सा तादृशी तेजःपूर्णा / विदितप्रमावा-विदितः ख्यातः सामर्थ्य यस्याः सा तादृशी, सा कुलदेवता, तुष्टा-प्रसन्ना सती। तम्-मन्त्रिणम् / निसावसाने-रात्रिचरमभागे / बभाषेउवाच // 46 // अथ तदुक्तिमेवाह-त्वया किमर्थमितित्वया किमर्थं विहितं मदीयाऽनुध्यानमेतत् सचिवावतंस ! उत्तिष्ठ वत्स ! स्वमनीषितं द्राङ्, मदनतस्त्वं विनिवेदयस्व // 47 // व्याख्या-सचिवावतंस !-मन्त्रिभूषण / वत्स ! त्वम् उत्तिष्ठ, शयनाद्विरम / त्वया, एतत्. मदो यानुध्यानम्-मम ध्यानम् / किमर्थ-कस्मै प्रयोजनाय / विहितं-कृतम् / स्वमनीषितं-निजमनोरथम् / मदग्रत:-मत्पुरतः / द्राक्-झटिति / एतेन शीघ्रवरदानसम्भावना सूचिता / विनिवेदयस्व-कथय // 47 // अथ सचिवप्रवृत्तिमाह-इति प्रसादप्रमुखमितिइति प्रसादप्रमुखं मुखोक्तं, निशम्य वाक्यं सचिवः स देव्याः / उत्थाय बद्धाञ्जलिसम्पुटः सन्नानन्दसम्पूर्णमना जगाद // 48 // व्याख्या-सचिव:-मन्त्री / इति–पूर्वोत्तप्रकारं / प्रसादप्रमुख-प्रसादः प्रसन्नता प्रमुखं प्रधानं यत्र तादृशमनुप्रहप्रयुक्तं / देव्याः मुखोक्तम्-मुखनिर्गतं / वाक्यं निशम्य, आनन्दसम्पूर्णमना:-आनन्देन सम्पूर्ण पूर्ण मनः यस्य स तादृशः, हृष्टः सन् / उत्थाय-उपविश्य / बद्धाञ्जलिसम्पुट:-बद्धं योजितमञ्जले: सम्पुटं येन तादृशः कृताञ्जलिः सन् / जगाद-उवाच // 48 // अथ सचिववरयाचनमाह-मत्पुत्रकायेतिमत्पुत्रकायस्थितकुष्ठगन्ध-स्तव प्रसादाद्धनसारसारात् / देवि ! प्रयातु क्षयमिष्टसिद्धि-प्रदानसम्पादनसिद्धिरूपे ! // 49 // व्याख्या-देवि !, इष्टसिद्धिप्रदानसम्पादनसिद्धिरूपे !-इष्टस्य अभिलषितला सिः पूर्णतायाः प्रदानस्य सम्पादनत्य करणस्य वा या सिद्धिः सम्पत्तिः, सा एव रूपं यस्या सा तत्संबुद्धौ इष्टसिद्धिप्रदायिनि !