________________ [ 208 ] व्याख्या - ततः-तस्मात कारणाच-उभयपक्षयोर्युक्त्यवगमादित्यर्थः / प्रीती विरोधे च प्रथमप्राधान्येन / पुण्यापुण्यप्रवृत्ती-पुण्यस्य अपुण्यस्य च प्रवृत्ती प्रेरणे एव / निदान हेतुं / विचिन्त्य-मत्वा / त्वम्, सम्बन्धविधानतः-सम्बन्धस्य तव मम च सुतयोः वैवाहिकाख्यस्य विधानतः करणात् / मे-मम / सम्बन्धिनां-कुटुम्बानां / शेखरतां-महत्त्वं / श्रय-आश्रय / एतेन सम्बन्धविधानेन मम सम्बन्धिषु त्वमेव श्रेष्ठः स्या इति भावः / पूर्वोक्तनीतिदृष्टान्तौ तु पुण्यापुण्यप्रवृत्त्यविरोधेन सङ्गमनीयौ इति / :36 / / अथ मन्त्रिणः स्वगृहागमनमाह -इत्याग्रहमितिइत्याग्रहं भूमिपुरन्दरस्य, सञ्चित्य चित्ते सचिवः स्वचित्ते / समागमन्नन्दिरमिद्धऋद्धि-प्रधानमाधानमयं सुखस्य // 37 // व्याख्या-सचिवः-मन्त्री सुबुद्धिः / स्वचित्ते, भूमिपुरन्दरस्य-राज्ञः / चित्ते, इति-पूव - प्रकारम् / आग्रहम्-अभिसन्धिं / सञ्चित्य-विचार्य, अस्मिन् विषये आग्रहवान् राजा दुर्निवार इत्यालोच्य / इद्धऋद्धिप्रधानम्-इद्धाः प्रवृद्धा या ऋद्धिः समृद्धिः सैव प्रधानं यत्र तव, अत एव / सुखस्यआधानमयं-खनिरूपं, यद्वा / सुखस्य आधानं-शर्मणो निधानम् / अयं-मन्त्री इत्यर्थः करणीयः / मन्दिरंगृहं / समागमत् // 37 // अथागतस्य तस्य तद्विषचिन्तामाह-बुद्धयेतिबुद्धया न यसिद्धयति कार्यमीष-द्वैषम्यमापन्नमनन्तशोऽपि / न पौरुषेणाऽपि न भूरिदानै-स्तत्रोचितार्चा कुलदेवतायाः // 38 // व्याख्या-वैषम्यम्-गहनताम् दुष्करतां वा / आपन्नं-गतम् / यत् कार्यम्, ईपत्-किश्चिदपि, अनन्तश:-शतधा / बुद्धथा- बुद्धिप्रयोगेणन / पौरुषेण-पराक्रमादिना न। भूरिदान:-मूरिभिः प्रचुरैः दानश्च / न सिद्धयति / तत्र-तादृशे कार्ये / कलदेवतायाः, अर्चा-पूजा / उचिता-युक्ता, कुलदेवतार्चनेन विषममपि कार्यम् सिद्धयति देवतानामलौकिकसामर्थ्यादिति भावः // 38 // __ अथ सप्तभिः श्लोकैः तत्कृत्यं वर्णयति-इत्यन्तरुदाव्येत्यादिइत्यन्तरुद्भाव्य विभावितात्मा, निकेतनाभ्यन्तर एव देव्याः / निकेतने केतनराजिराजि, स्नात्वा प्रविश्य प्रयतः स धीरः // 39 //