________________ [ 207] कुलं ययोरेवेत्यपि न युक्तमित्याह - न किमितिन कि विभिन्नान्वययोर्भवेयुः, प्रीतिश्रियः स्फीततमाः सुबुद्धे ! तथाहि रामः प्रमनाः स्म दत्ते, लङ्काधिपत्यं स विभीषणाय // 34 // व्याख्या - सबुद्धे-तदाख्यमन्त्रिन् ! विभिन्नान्वययो:-विभिन्नः अन्वयः कुलं ययोस्तयोः भिन्नकुलयोः 'वंशोऽन्ववायः सन्तानः कुलान्यभिजनान्वया' वित्यमरः / स्फोततमा:-विशुद्धाः / प्रीतिश्रियः-प्रेमसम्पदः, मैत्रीत्यर्थः / न भवेयुः किम् ?-न संभाविताः किम् ? अपि त्ववश्यं संभाविताः / ननु कुतो दृश्यते इति चेत्तत्राह-तथाहि प्रमना:-हृष्टमानस: 'हर्षमाणस्तु प्रमना हृष्टमानस' इति हैमः / सः रामः-दाशरथिः रामचन्द्रः / विभीषणाय-असुरकुलोत्पन्नायापि / लङ्काधिपत्यं-लङ्कायाः तदाख्यनगर्याः आधिपत्यं स्वामित्वं दत्ते स्म-अदात् / एवञ्च विभिन्नकुलयोरपि मैत्री प्रसिद्धैवेति भावः // 34 // यदप्युक्तं विवादश्चेति तदपि न युक्तमित्याह-श्रीरामलकेश्वरयोर्गरीयानितिश्रीरामलङ्केश्वरयोगरीयान्, कुले विभिन्नेऽपि रणो बभूव / न मन्वते मानधनास्तु यद्वा, किञ्चित् परित्यक्तविवेकभावाः // 35 // __व्याख्या -विभिन्नेऽपि कले-सति / श्रीरामलकेश्वरयोः-श्रीरामः दाशरथिः लङ्क श्वरो रावणः तयोः। गरीयान-महान् / रणः-युद्धं / बभव-एवञ्च समे कुले एव विवादः इत्यप्ययुक्तमेवेति भावः / नन्वेवमेतत्, किन्तु ययोरेव समं वित्तमित्यादि प्रतिपादिका नीतिस्तु विरुद्धयत एवेति चेत्तत्राह-यद्वा परित्यक्तविवेकभावाः-परित्यक्तः विवेकस्य कुलादिकृतभेदस्य भावः यैः तादृशाः, उदाराशयाः 'उदारचरितानान्तु वसुधैव कुटुम्बकम्' इत्युक्तेरिति भावः / मानधना:-मानमेव धनं येषां ते तादृशाः मानरक्षणाः तु-वित्ताद्यसाम्येऽपि सति सम्भवे मैत्र्यादिना मानरक्षणपरायणा इति यावत् / किश्चित-वित्ताद्यसाम्यं / न मन्वते-गणयन्ति / एवञ्च वित्तादिविवेकः क्ष द्रहृदयकृत एवेति भावः / अत्र न मन्वते इत्यादिना साम्यान्येनार्थेन वित्ताद्यसाम्येऽपि रणादेविशेषस्य समर्थनादर्थान्तरन्यासोऽलङ्कारः // 35 / / ननु वित्ताद्यसाम्ये मैत्र्यादिप्रतिषेधिका नीतिः, मैत्र्यादिसमर्थकश्च दृष्टान्तः, तर्हि कतरः पक्षो न्याय्यः, __ इत्याशङ्कायामाह -प्रीतौ विरोधे चेतिप्रीतौ विरोधे च ततश्च पुण्याऽपुण्यप्रवृती प्रथमं निदानम् / विचिन्त्य सम्बन्धविधानतो मे, सम्बन्धिनां शेखरतां श्रय त्वम् // 36 //