________________ व्याकरणं-तदाख्यशास्त्र / प्रकुर्वन-विदधत् / स्वस्वामिसम्बन्धम् , अभाषत-स्वस्वामिभावसम्बन्धे शेषे षष्ठीविधानादिति भावः / अहो ! आश्चर्यम् ! अमात्य ! मन्त्रिन् ! त्वया, आबालगोपालम्-बालपर्यन्तं गोपालपर्यन्तं, च / प्रसिद्धः-ख्यातः / मः-सम्बन्धः। किं न संस्मयते ? विस्मृतोऽसि ? स्मर्त्तव्यं तिदिति भावः // 31 // ___ ननु पाणिनिना स्वस्वामिभावः सम्बन्धः उक्तः, तत्स्मर्यते च, तेन प्रकृते किमायातम् इति चेत्तत्राहसम्बन्धमितिसम्बन्धमुयोतयितुं पटिष्ठा, षष्ठीविभक्तिः सुधियां मतास्ति / त्वं सेवकोऽहं प्रभुरस्मि तेऽपि, प्रतीतमेवं तमुरीकुरुष्व // 32 // ___ व्याख्या--सधियां-विदुषां / सम्बन्धम्-स्वस्वामिभावाद्याख्यं संसर्गम् / उद्योतयितुं-ध्वनयितुं, विभक्तीनां द्योतकत्वस्यैव स्वीकारादिति भावः / षष्ठीविभक्तिः-षष्ठीपदवाच्यत्वेन व्याकरणे प्रसिद्धा "ङसोसामि"ति विभक्तिः / पटिष्ठा-समर्था / मता-सम्मता / अस्ति / ननु तेन किमित्यव आह-त्व सेवकः, अहं प्रभुः-स्वामी। अस्मि-इति / ते-तवापि, एवं प्रतीतम्-इष्टमेव, स्वस्वामिभावसम्बन्धः तवापीष्ट एवेत्यर्थः एवञ्च / तं-सम्बन्धम् / उरीकुरुष्व-स्वीकुरुष्व / एतेन त्वया मम सम्बन्धो वर्तते एव, न तु नवीनः कश्चिस्कर्त्तव्यः, केवलं स एव सम्बन्धः प्रकारान्तरेणाऽपि दृढ़ीकर्तव्यः, एवञ्च नानौचित्यमिति भावः // 36 // यद्यप्युक्तं 'वित्तं ययोरेवे'त्यादि, तदपि न युक्तमित्याह--धनं ययोरेवेति-- धनं ययोरेव समानमित्याद्यवाचि यत्तन्न विचारचारु / सहस्रपादस्य दिनेश्वरस्य, किं पना काश्यपिना न योगः ? // 33 // व्याख्या -धनं ययोरेव समानमित्यादि / यत्-पुरा। त्वया अवाचि तत्-तद्वचनं / विचारचारविचारेण चारु युक्तियुक्तं / न-कुत इत्याह / सहस्रपादस्य-सहस्रं पादाः किरणाः यस्य सः सहस्रपादः / तस्य दिनेश्वरस्य-सूर्यस्य / पंगुना-चरणविकलेन / काश्यपिना-अरुणेन "सुरसूतोऽरुणोऽनूरू: काश्यपिर्गरुडाग्रजः" इत्यमरः / स च चरणविकल इति पुराणम् / योगः-सम्बन्धः / किन ? अपि त्ववश्यमेव सम्बन्धः / सूर्यरथस्य सारथिः स एव प्रसिद्धः, एवञ्चासमयोरपि सम्बन्धो नायुक्त इति भावः / अत्रासमसम्बन्धे दृष्टान्तप्रदर्शनादृष्टान्तोऽलङ्कारः // 33 //