________________ [205 ] व्याख्या-महाराज ! तत:-तत्स्माद्धेतोः / भवता एतव-कथितम् / इदं-वचनं / मनागपिईषदपि / युक्तं-सम्यक् / न अभ्यधायि-उक्तम् / हि:-यतः / महीयसां-महत्तराणां / युक्त्या-तर्केण / अनुयुक्तं-समन्वितं / निरूप्यमाणं-कथ्यमानं / महत्त्वं-सारवत्त्वम् / आतनुते-विस्तारयति, अतः एतद्वचनं भवतो महत्त्वं न पुष्यति इति भावः // 28 // ननु मत्तः सम्बन्धे तव लाभ एवेति त्वया किं निषिध्यते इति चेत्तत्राह-अपेक्षणीयेतिअपेक्षणीया न भवन्ति जातु, क्षोणीश्वराणामपि सेवकास्ते / ये लोभमालम्ब्य समुत्सहन्ते, कीर्ति प्रभो ! च्छेत्तुमिह प्रसिद्धाम् // 29 // __व्याख्या-इह-जगति / ये लोम-धनादिलाभजनिताधिकप्राप्त्यभिलाषम् / आलम्ब्य-आश्रित्य / प्रभोः-स्वामिनः / प्रसिद्धां कीर्ति-विश्वविश्रुतं विमलं यशः ।छेत्तु मलिनयितुं / समुत्सहन्ते-सज्जा भवन्ति / ते सेवकाक्षोणीश्वराणमपि राज्ञामपि। जातु-कदाचिदपि / अपेक्षणीया:-आदरपात्रं / न भवन्ति-नहि जायन्ते / सेवकै तथा नाचरणीयं कदाचिदपि, येन प्रमुकीतिहानिः सम्भाव्यते, इति भावः // 29 // अथ भूपकृतोत्तरमाह-तदुक्तमाधायेतितदुक्तमाधाय हृदीति राजा, विराजमानः सहजेन धाम्ना। जगाद मन्त्रिम् ! कथमस्मदीयं, वाक्यं विसम्बन्धमुदाहरस्त्वम् // 30 // व्याख्या-इति-पूर्वोक्तप्रकारं / तदुक्तं तेन मन्त्रिणा उक्तं कथितं वचनं / हृदि आधाय-कृत्वा श्रत्वेत्यर्थः / सहजेन-वाभाविकेन / धाम्ना-प्रतापेन / विराजमानः-शोभमानः / राजा जगाद-किमित्याह मन्त्रिन् ! त्वं कथं-केन प्रकारेण / अस्मदीयं वाक्यम्-अस्मदुक्तं वचनं / विसम्बन्धं-विगतः सम्बन्धः यतः तत्तादृशमनुचितम् / उदाहर:-अकथयः, अनौचित्ये तव तर्को न सङ्गत इति भावः // 30 // ननु केन तर्केण तवौचित्यमित्याह-स्वस्वामीतिस्वस्वामिसम्बन्धमभाषताऽयं, दाक्षीसुतो व्याकरणं प्रकुर्वन् / आबालगोपालमहो ! प्रसिद्धः, संस्मर्यतेऽमात्य ! स किं त्वया न ? // 31 // व्याख्या-अयं-स प्रसिद्धः / दाक्षीसत:-पाणिनिः 'दाक्षीपुत्रोऽपि पाणिनौ' इति शिलोव्छः /