________________ [204 ] - कुतोऽनौचित्यमित्याह-क्व स्वर्णकायः इति - क्व स्वर्णकायः क्व च राजिलोऽयं, क्वैरावणः क्वैडकडिम्भ एषः / राजेन्द्रसंसेव्यपदः क्व देवस्त्वत्पादपद्मप्रणयी क्व चाऽहम् // 25 // व्याख्या - स्वर्णकाय:-कनकाङ्गः गरुडो वा / क्व-स्वर्णकायस्ताक्ष्यः' इति हैमः। अयं-लोकनिकृष्टः / राजिल:-मलिनवर्णः डुण्डभः सर्पविशेषः / क्व च-'समौ राजिलडुण्डुभौ' इत्यमरः / ऐरावण:सुरगजः / क्व एष:-नीचतरः। एडकडिम्भ:-मेषबालः : क्व-अनयोमहदन्तरमितिभावः / राजेन्द्रसंसेव्यपदः-राजेन्द्रसंसेव्यौ पदौ पादौ यस्य स तादृशः / देवः-भवान् / क्व, त्वत्पादपद्मप्रणयी, अहं च क्वआवयोः स्वर्णकायराजिलयोः ऐरावणैडकडिम्भयोरिव महदन्तरमिति भावः // 25 // ____ननु भवत्येवम् तथापि विवाहसम्बन्धे का हानिरिति चेत्तत्राह वित्तं ययोरेवेतिवित्तं ययोरेव समं जगत्यां, कुलं ययोरेव समं प्रतीतम् / मैत्री तयोरेव तयोर्विवाहस्तयोर्विवादश्च निरूपितोऽस्ति // 26 // __ व्याख्या-जगत्यां-लोके / ययोः-द्वयोः / सम-तुल्यमेव, वित्तम् ययोरेव, कुलं-वंशः / समं, प्रतीतम्-ज्ञातम् / तयो रेव, मैत्री, तयोविवाहः, तयोः विवादः-व्यवहारश्च / निरूपितः - नीत्यादिशास्त्रे 'ययोरेव समं वित्तं,ययोरेव समं कुलम् / तयोविवाहः सख्यं च,न तु पुष्टविपुष्टयोः' इत्यादि वचनात् / अस्ति / "व्यवहारो विवादः स्यात्” इति हैमः / आवयोश्च न किश्चिदपि सममतोऽनौचित्यमिति भावः // 26 // " नन्वेवमपि द्वयोरिच्छायां सत्यां विवाहसम्बन्धे न कोऽपि दोषः इति चेत्तत्राह- स एवेतिस एव सम्बन्धविधिविधेयः, सम्बन्धिता येन भवेत् प्रशस्या / निर्बन्धमापाद्य विधीयमानः, सम्बन्ध एव प्रकरोति हास्यम् // 27 // * व्याख्या-स एव सम्बन्धविधिः-सम्बन्धस्य विधिरनुष्ठानं / विधेयः कर्त्तव्यः / येन-सम्बन्धविधानेन / सम्बन्धिता प्रशस्या-अवचनीया। भवेत्-विपक्षे बाधकमाह-निर्बन्धम्-आग्रहम्, / आपाद्यप्राप्य / विधीयमानः सम्बन्धः, हास्यमेव प्रकरोति-एतादृशस्य श्रेष्ठस्यैतादृशो निकृष्टः सम्बन्धीत्येवं लोकहास्य जायते इति भावः // 27 // अथ मन्न्युक्तिमुपसंहरति-ततो महाराज ! इतिततो महाराज ! मनागपीदं, न युक्तमेतद्भवताऽभ्यधायि / महीयसामातनुते महत्त्वं, युक्त्यानुयुक्तं हि निरूप्यमाणम् // 28 //