________________ [ 203 ] स्वम्-आत्मीयं / मनीषितं समाहित / न, प्रविकाशयेतं प्रकटयेत ? अपि तु सर्व एवेत्यर्थः / अत्र विशेषस्य, राज्ञीकृताशयप्रकटनस्य, सामान्याशयप्रकटनेन समर्थनाद्विशेषस्य सामान्येन समर्थनरूपोऽर्थान्तरन्यासः // 21 // - अथ राज्ञः सभागमनमाह-विज्ञप्तिमासामितिविज्ञप्तिमासां हृदये निधाय, क्षमावासवः संसदमध्युवास / पूषेव पूर्वाचलसानुदेश, सिंहासनं च श्रितवानतन्द्रः // 22 // व्याख्या-क्ष्मावासवः-महीमहेन्द्रः / आसाम्-राज्ञीणाम् / विज्ञप्ति-निवेदनम् / हृदये, निधाय - मनसि कृत्वा / संसद-सभाम् / अध्युषास-अध्यशिश्रियत् / पूर्वाचलसानुदेशं-पूर्वः पूर्वदिक्स्थः यः अचल पर्वतः उदयाचलपर्वतः, तस्य सानुदेशं प्रस्थप्रदेशं स्नुः प्रस्यः सानुरि' त्यमरः / पूषा-सूर्यः / इत्र, सिंहासनम्, अतन्द्रः-प्रसन्नः / श्रितवान्-अधिष्ठितवाँश्च // 22 // सुबुद्धिनामानमथो सुबुद्धिं, मन्त्रीशमूचे वसुधासुधांशुः / सुतां मदीयां स्वसुतेन सार्द्ध, विवाहयाऽस्मद्विनियोगतस्त्वम् // 23 // __ व्याख्या - अथो-अनन्तरम् / वसुधासुधांशुः पृथिवीचन्द्रः,स राजा / सुबुद्धि-बुद्धिमन्तं / सुबुद्धिनामानं, मन्त्रीशम्, ऊचे-किमित्याह / त्वम् , अस्मद्विनियोगतः-अस्मत्प्रेरणया / स्वसुतेन-निजपुत्रेण / माद्ध, मदीयां, सुतां-पुत्रीं / विवाहय // 23 // अथ मन्त्रिकृतोत्तरमाह-त्वग्दोषदुष्टमितित्वग्दोषदुष्टं तनयं विभाव्य, प्रोवाच मन्त्री नृपतिं प्रतीदम् / स्वामिन्ननौचित्यविपञ्चितं किं, वचस्त्वयाऽवाचि विपश्चिताऽपि // 24 // व्याख्या-मन्त्री, तनयं-पुत्रं / त्वगदोषदुष्टं-त्वग्दोषेण चर्मरोगेण श्वित्रादिना दुष्टम् दूषितं / विभाव्य-विचिन्त्य, मम पुत्रः त्वग्दोषदुष्ट इत्येवं विचार्य / नृपति,प्रति, इदं-वक्ष्यमाणं / प्रोवाच / इदमिति किमित्याह ·-स्वामिन् ! विपश्चिताऽपि-विदुषाऽपि / त्वया, अनौचित्यविपश्चितम्-अनौचित्येन विपश्चितं समन्वितमनुचितमित्यर्थः / वच:-वचनं / किमवाचि-जगडे, नैतद्वचनं तव युज्यते इत्यर्थः // 24 //