________________ | 202] - व्याख्या-ईश !-स्वामिन् ! अत्र-अस्याः विवाहविषये / यद्, विज्ञापना-निवेदनं / क्रियतेमयेति शेषः / तत, परमार्थ-मम विशेषतो वक्तव्यम् / अबधारय-निश्चितं कुरु जानीहि / किन्तदित्याह / अस्यां-कन्यकायाम् / अस्माकं. मनसा प्रवृद्धः-वृद्धिं गतः पुष्टः इत्यर्थः / कोऽपि-विलक्षणः / प्रेमा-प्रीतिः / समुज्जम्भत एव-प्रतिदिनं वर्धत एव // 18 // ततो महाराज ! मयि प्रसाद, विधाय पुत्रीं प्रतिपादयेताम् / वराय कस्मैचिदिदंपुरीय - वास्तव्यचूडामणये महेच्छ ! // 19 // व्याख्या-महाराज ! महेच्छ !-मनस्विन् ! ततः-प्रेमवृद्धोतोः / मयि प्रसादं प्रसन्नतां / विधाय, -अनुप्रहं कृत्वेत्यर्थः / इदंपरीयवास्तव्यचूडामणये-इदंपुरीया ये वास्तव्याः एतनगरनिवासिनः तेषु चूडामणये चूडामणिवत्सर्वोच्चस्थानस्थिताय, पुरुषोत्तमायेत्यर्थः / घराय, कस्मैचित्.इमां पुत्री, प्रतिपादयददस्व // 19 // ननु तेन तव को लाभ इत्याह-संगच्छतेऽसौ इतिसङ्गच्छतेऽसौ श्वशुरस्य गेहा-दागत्य चागत्य यथाऽनिशं नः / अस्या वियोगं न वयं विसोढ', क्षमाःक्षमाखण्डल ! किञ्चिदेव // 20 // व्याख्या-यथा-येन / श्वशुरस्य, गेहाद् आगत्यागत्य च, असौ-पुत्री / नः अनिशं-प्रतिदिनं सङ्गच्छते-मिले / ननु प्रतिदिनं मिलनं नात्यावश्यकमिति चेत्तत्राह / क्षमाखण्डल !-क्षमायाम् आखण्डल इन्द्र इव ! महीमहेन्द्र ! अस्याः-पुत्र्याः। किञ्चिदेव-ईषदपि, अल्पकालमपीत्यर्थः / वियोग-विरहं / विसोढं, वयं न क्षमाः-शक्ताः / पुरान्तरगमने तु वियोगोऽवश्यंभावी स चासह्य इति // 20 // अस्य पत्न्यन्तरसमर्थनमप्याह-राज्ञीभिरिति-- राज्ञीभिरन्याभिरियं निजेच्छा, राज्ञः पुरो विज्ञपयाम्बभूवे / को वा प्रभूणां न मनीषितं स्वं, लब्धावकाशः प्रविकाशयेत // 21 // व्याख्या-राज्ञः पुरः-अग्रे। अन्याभिः राज्ञीभि:-अपि / इयं-पट्टमहिष्युक्ता / निजेच्छास्वाभिलाषः, एवमेव ममाप्यभिलाष इत्येवमिति भावः / विज्ञापयाम्बभूवे-व्यज्ञापि / ननु सर्वाभिरेव किमिति स्वाशयः प्रकटितः इति चेत्तत्राह-प्रभूणां-स्वामिनाम् अग्रे / लब्धावकाश:-प्राप्तावसरः / कः, वा. .