________________ [ 201] व्याख्या-इति-पूर्वोक्तप्रकारं / स्वयम्-आत्मना / चित्ते, निश्चित्य पुन:-अनन्तरम् / तां, समां, सहसा, विसृज्य-त्यक्त्वा / अधीशः-भूपः / तया, बालिकया-त्रैलोक्यसुन्दर्या / अमा-सह / वेत्रिनिरूद्धलोकम-वेत्रिणा, वेत्रधारिणा द्वारपालेन निरुद्धः निषिद्धः लोकः सदागतः इतरो जनः यत्र तत्ता रशम् / अन्तःपुरम्-अवरोधम् / समागमत् // 15 // प्रत्युजगामाऽथ गुणावली तं नृपावलीवन्द्यपदारविन्दम् / भद्रासने भद्रतया निविष्ट, सा संनिविष्टा तमिदं बभाषे // 16 // व्याख्या-अथ-राझि समागते / गुणावली-राझी / नृपावलोवन्द्यपदारविन्द-नृपावल्या राजसमूहेन बन्धे पदौ एव अरविन्दे यस्य तं तादृशम् / तं-भूपम् / प्रत्युजगाम-सम्मुखं ययौ, स्वागतार्थमिति भावः / तथा भद्रासने-नृपासने 'भद्रासनं नृपासनम्' इति हैमः / मद्रतया-कुशलेन / निविष्टम्-उपविष्टं / तं-भूपं / सन्निविष्टा-स्वयमुपविष्टा / सा-गुणावली / इदं-वक्ष्यमाणप्रकारं / बभाषे // 16 // अथ तदुक्तिमेव प्रपञ्चति-विवाहयोग्येतिविवाहयोग्या भवतोऽस्ति पुत्री, यशःपवित्रीकृतविश्वविश्व ! दिगीश्वरांशाश्रितमूर्तिरद्धा, सर्व स्वतो वेद महीमहेन्द्रः // 17 // व्याख्या--यशःपवित्रीकृतविश्वविश्व!-यशोभिः पवित्री कृतं विश्वं समस्तं विश्वं भुवनं येन स तादृश ! भवतः, पुत्री, विवाहयोग्या,अस्ति, दिगोश्वरांशाश्रितमूर्ति:-दिगीश्वराणां दिक्पालानामशैः तेजोभिः आश्रिना मूर्तिः शरीरं यस्य स तादृशः / राज्ञो दिक्पारांशसंभवत्वादिति भावः / महीमहेन्द्र:-मयां महेन्द्र इव स भवान् / अद्धा-निश्चयेन 'निश्चयेऽद्धाऽञ्जसा द्वयम्' इतिशेषनाममाला / स्वतः स्वयमेव / सर्वपुत्र्याः विवाहयोग्यतादि / वेद-जानाति / एवञ्च मत्कथनम् नातीवोपयुज्यते, अलं विशेषु विज्ञप्त्येति भावः // 17 // अथ विशेषतो वक्तव्यमाह-विज्ञापनेति विज्ञापना यत् क्रियते तदत्राऽवधारय त्वं परमार्थमीश ! अस्माकमस्यां मनसा प्रवृद्धः, प्रेमा समुज्जम्भत एव कोऽपि // 18 //