________________ [20. ] विलोक्य बालां सुरसुन्दरस्तां, रूपस्वरूपेण जगजयन्तीम् / गुणैरशेषानपि रञ्जयन्ती, मनोभुवः शासनवैजयन्तीम् // 12 // दध्यौ नृपस्त्वेवमहो ! किमस्या, वरो विधात्रा प्रवरो न सृष्टः / सृष्टो यदि स्यादवलोक्यतेऽत्र, श्रोत्रातिथित्वं प्रतिपद्यते वा॥१३॥ ____ व्याख्या-गुणैः कृत्वा / अशेषान् सर्वानपि, रजयन्ती-मोदयन्तीम् / रूपस्वरूपेण-रूपस्य आकृत्याः स्वरूपेण शोभया / जगत्-लोकम् / जयन्तीम्-अधः कुर्वतीम् / अत एव, मनोभुवः-कामस्य / शासनवैजयन्ती-शासनस्य साम्राज्यस्य वैजयन्ती विजयपताकातुल्यां / तां बालां-त्रैलोक्यसुन्दरीम् / विलोक्य, सुरसुन्दरः नृपः एवं-वक्ष्यमाणप्रकारेण / दध्यो-चिन्तितवान्, किमित्याह / अहो-इति खेदे / विधात्रा-ब्रह्मणा / अस्या:-बालिकायाः / प्रवरः-श्रेष्ठः अनुगुणो वा ।वरः-पतिः। न सृष्टः-निर्मितो न। किम् ? ननु कुत एष प्रश्न इत्याह-यदि सृष्टः स्याद् अत्रावलोक्यते-अवलोकितः स्यात् / वा-अथवा / श्रोत्रातिथित्वं-श्रोत्रयोः कर्णयोः अतिथित्वं प्राघुर्णकत्वं / प्रतिपद्यते-प्रतिपन्नः स्यात्, श्रुतः स्यादित्यर्थः / न च दृष्टः न च श्रुतः, तस्माद सृष्टो नवेति सन्देहः // 12-13 // अथ वरविषये चिन्तान्तरमाह-अतादृशायेतिअतादृशाय प्रतिपाद्यते चेत्, संपद्यते तद्वचनीयता मे / अस्यां हि सृष्टिः सुकृतैरियं तत्, संपादयिष्यन्ति तमेव तानि // 14 // व्याख्या-अतादृशाय-अनीदृशाय / चेत-यदि / प्रतिपाद्यते-इयं कन्या दीयते / तत्तर्हि / मे-मम / वचनीयता-निन्दनीयता / सम्पद्यते-जायते / कथमेतादृशाय तादृशी कन्या समर्पितेत्यविवेक्ययमित्येवमिति भावः / ननु तर्हि किं कर्त्तव्यं तत्राह-हि-यतः / अस्यां-कन्यकायां / सुकृतैः-पुण्यैः / इयम्-ईदृशी गुणरूपादिसम्पद्र्पा / सृष्टिः-निर्मितिः विधानम्, तत् तस्मात् / नानि-सुकृत्यान्येव / तं-वरं। सम्पादयिष्यन्ति-प्रापयिष्यन्ति / नहि सुकृतकार्यमेकत्र पक्षपातीति भावः // 14 // अथ राज्ञोऽन्तःपुरगमनमाह-निश्चित्येति - निश्चित्य चित्ते स्वयमित्यधीशः, सभा पुनस्तां सहसा विसृज्य / अन्तःपुरं बालिकया तयाऽमा, समागमद्वेत्रिनिरुद्धलोकम् // 15 //