________________ [ 199 ] सुवर्णरत्नाभरणैर्विचित्रे - राचूलमापादनखं विभूष्य / दिव्यं दुकूल परिधाप्य भव्य, शिरीषकोषप्रदिमाऽपघाति // 9 // व्याख्या-विचित्रैः-नानाविधैः / सुवर्णरत्नाभरणैः-सुवर्णानां रत्नानाचाभरणैः भूषणैः / आचूलम्आकेशपाशि, 'शिखा चूडाकेशपाशी'त्यमरः / आपादनख-पादनखपर्यन्तमित्यर्थः, सर्वाङ्गेष्विति यावत् / विभूष्य-अलङ्कृत्य / भव्यं-मनोहरं / शिरीषकोषम्रदिमाऽपघाति-शिरीषकोषस्य म्रदम्निः कोमलतायाः अपघाति अधःकारकम् / अत एव दिव्यं दुकूलं-सूक्ष्मवस्त्र, क्षौमाख्यं पट्टवस्त्रं 'क्षौमं दुकूलं स्यात्' इत्यमरः परिधाप्य // 9 // गुणावली तां प्रसरत्समग्र-गुणावलीमालिजनेन सार्द्धम् / आस्थानमास्थायकृतासनस्य, प्रस्थापयामास नृपस्य पार्श्वम् // 10 // व्याख्या-प्रसरत्समग्रगुणावली-प्रसरन्ती समासजन्ती समप्राणां गुणानामावली श्रेणी यस्यां ताम् / तां-त्रैलोक्यसुन्दरीम् / गुणावली-राज्ञी / आलिजनेन-सखीलोकेन / सार्द्धम्-'आलिः सखी वयस्या' इत्यमरः / आस्थान-सभामण्डपम् / आस्थाय-अधिश्रित्य / कृतासनस्य-कृतमासनमुववेशनं येन तस्य, सभायामुपविष्टस्य / नृपस्य, पाच-समीपे / प्रस्थापयामास // 10 // भूपालदोःस्तम्भमवाप्य बाला, सा शालभञ्जीव परं रराज। विलोचनेन्दीवरसन्ततीनां, ज्योत्स्नेव यूनां ददती विकाशम् // 11 // व्याख्या-यूनां-तरुणानाम् / विलोचनेन्दीवरसन्ततीनां-विलोचनान्येवेन्दीवराणि नीलोत्पलानि 'नीले तु स्यादिन्दीवरम्' इति हैमः / तेषां सन्ततीनामावलीनां / ज्योत्स्ना-चन्द्रिका / इव-नीलोत्पलं रात्री विकसतीति कविसमयः / विकाशम्-उल्लास / ददती-अर्पयन्ती, यूनां लोचनानि विस्फारयन्तीत्यर्थः / युवभिः सोत्सुकमवलोकनादिति भावः / सा, बाला-त्रैलोक्यसुन्दरी। भूपालदोःस्तम्भ-भूपालस्य पितुः राज्ञः दोर्बाहुरेव स्तम्भः तम् / अवाप्य-प्राप्य, भूपेन वात्सल्येनाश्लिष्टा सती / शालभञ्जी-पुत्तलिकेव / परम्अत्यन्तं / रराज-शुशुभे / (उपमा) // 11 // अथ तां दृष्ट्वा नृपस्य वरचिन्तामाह युग्मेन-विलोक्यबालामित्यादि