________________ [198 ] व्याख्या-प्रम:-माता / तस्यां त्रैलोक्यसुन्दयां / गर्भम् अधिश्रयन्त्याम्-आश्रयन्त्याम्, गर्भावस्थितायां सत्यामित्यर्थः / तमीतरीयप्रहरे-तम्याः रजन्याः 'रजनी यामिनी तमी' इत्यमरः / तुरीये चतुर्थे प्रहरे यामे, 'द्वौ यामप्रहरौ समा' वित्यमरः / अवशिष्टे-सति, तत्कालदृष्टस्वप्नस्य सफलत्वादितिभावः / स्वप्ने उत्सङ्गसंसङ्गिफलोषशोभाम्-उत्सङ्ग अङ्के 'अङ्कः क्रोड उत्सङ्ग' इति हैमः, संसङ्गिभिः लगैः फलैः उपशोभा यस्यास्ताम्, फलसमन्वितां / वीरुधं-लताम् 'लता प्रतानिनी, वीरुद्गुल्मिन्युलप' इत्यमरः / यत्यस्माद्धेतोः / समालोकत. तव-तस्माद्धेतोः, तत्सा लता / अस्याः कृशाङ्गथा:-त्रैलोक्यसुन्दर्याः। कन्दर्पलीलोपवने-कन्दर्पस्य कामस्य लीलायै विलासाय यदुपवनमुद्यानं तद्रूपे / तद्यौवने-तस्याः तारुण्ये / विजम्ममाणेन-वृद्धिं गच्छता, अत एव / अन्योऽन्यम्-परस्परम् / आस्फालयता-सङ्घर्षमामुवता, अतिवनेन पीवरेण चेत्यर्थः / कुचद्वयेन-स्तनद्वयेन कृत्वा / किं न चापि ना फलितम् ? अपितु सैव फलितमेवेत्यर्थः / फलयुक्तलतेव तदानीं सेति भावः / अत्र किं फलितं न चापीत्युक्त्या स्पष्टैवोत्प्रेक्षा / / 5-6 // अथ तां तादृशी दृष्ट्वा मातुर्मोदमाह-तां यौवनेतिता यौवनोद्धेदविशेषरम्यां, माता समालोक्य मुदं बभार / विचिन्तयन्तीति सुधा किमेषा, मत्कुक्षिरत्नाकरतो विजज्ञे // 7 // ____ व्याख्या-तां त्रैलोक्यसुन्दरीम् / यौवनोद्भेदविशेषरम्यां-यौवनस्य उद्भेदेनाविर्भावेन विशेषण पूर्वतोऽप्याधिक्येन रम्यां शोभासम्पन्नाम् / समालोक्य, माता, मत्कुक्षिरत्नाकरतः- मत्कुक्षिर्ममोदरमेव रत्नाकरः सागरः, ततः / एषा-पुत्री / सुधा-अमृततुल्या / विजज्ञे-जाता / किम् ? इति-इत्थं / विचिन्तयन्ती-उत्प्रेक्षमाणा / मुदं-हर्ष / बभार-दधौ // 7 // अथ तामलकृत्य पितुः समीपे प्रस्थापनं त्रिभिराह अन्येधुरभ्यज्येत्यादिअन्येधुरभ्यज्य सहस्रपाकतैलेन कपूरसुगन्धिनैनाम् / श्रीखण्डवासैमसृणैः समन्तादुद्वर्त्य कोष्णैरभिषेच्य वार्भिः // 8 // व्याख्या-अन्येद्यः एकदा / एनां त्रैलोक्यसुन्दरीम् / करसुगन्धिना-कपूरेण सामोदेन / सहस्रपाक्तैलेन अभ्यज्य-कृताभ्यङ्गां कृत्वा / मसूणैः-स्निग्धैः / श्रीखण्डवास:-श्रीखण्डस्य चन्दनस्य वासः क्षोदैः / उद्वर्त्य-कृतोद्वर्तनां कृत्वा / कोण?-ईषदुष्णैः / वार्मि:-जलैः / अभिषेच्य-स्नपयित्वा / अस्याप्रे प्रस्थापयामासेत्यनेनान्वयः / / 8 //