________________ [ 197] एव, चक्र-उपरि तु तदधिकायाः चम्पानगर्याः सत्त्वाव तद्रम्यता लव स्यादिति भावः / अत्र चम्पानगरीमवलोक्य स्वनगर्याः अधःकरणाभावेऽप्युक्तः असम्बन्धे सम्बन्धरूपा अतिशयोक्तिरलकारः / तेन च भोगावत्यपेक्षयापि चम्पानगरी अधिकरम्येति व्यतिरेको ध्वन्यते // 2 // अत्रत्यं राजानं वर्णवति-न्यायक्रियासुन्दरेतिन्यायक्रियासुन्दर एव तस्यां, पृथ्वीपतिः सुन्दरनामधेयः / बभूव यस्याग्रत एव लक्ष्म्याः , पुरन्दरः किङ्कर इत्यमानि // 3 // ___ व्याख्या-तस्या-चम्पानगर्यो / न्यायक्रियासुन्दरः- न्याये नीतौ धर्मादिकार्येषु च सुन्दरः परायणः / एव-अत एव / सुन्दरनामधेय:-एतेनान्वर्था संज्ञाइति सूचितम् / पृथ्वीपतिः बभूव। यस्य-राज्ञः। लक्ष्म्याः -समृद्धेः / अग्रत:-पुरतः / पुरन्दर:-इन्द्रः / किङ्करः-दास एव / इति अमानि-मन्यते स्म लोकैरिति शेषः / अत्रोपमाने पुरन्दरे किङ्करत्वेन हीनत्वे वर्णनाद् व्यतिरेकः // 3 // अथ राशीमाह-गुणावली तस्येतिगुणावली तस्य नृपस्य देवी, देवीव सौन्दर्यगुणेन याऽऽसीत् / त्रैलोक्यसुन्दर्यभिधा तदीया, त्रैलोक्यसुन्दर्यभवत्तनूजा // 4 // व्याख्या-तस्य-सुन्दरनाम्नो नृपस्य / गुणावली-तन्नाम्नी / देवी-पट्टमहिषी। या-राझी / सौन्दर्यगुणेन-सौन्दर्येण गुणेन च / देवी-सुरत्री / इवासीत् तदीया-राज्ञोः / त्रैलोक्यसुन्दरी-त्रैलोक्ये सुन्दरी, सुन्दररूपवती / तनूजा-पुत्री / त्रैलोक्यसन्दर्यभिधा-त्रैलोक्यसुन्दरी अमिधा यस्याः सा त्रैलोक्यसुन्दरीनाम्नी / अभवत् // 4 // अथ त्रैलोक्यसुन्दर्याः यौवनं श्लोकद्वयेनाह-उत्सङ्गसंसङ्गिफलोपशोभामित्यादिउत्सङ्गसंसङ्गिफलोपशोभां, स्वप्ने समालोकत वीरुधं यत् / तमीतुरीयाहरेऽवशिष्टे, तस्यां प्रसूर्गर्भमधिश्रयन्त्याम् // 5 // अन्योऽन्यमास्फालयता तदस्या, विज़म्भमाणेन कुचद्वयेन / कन्दर्पलीलोपवने कृशाङ्गया, तद्यौवने किं फलितं न चापि ? // 6 //