________________ * अथ चतुर्थः सर्गः ॐ शान्ति यस्तनुतेऽमितां जिनवर-श्चैत्ये विचित्रप्रमे / शास्त्रालङ्कतिशून्यभव्यमुकुटा-बच्छात्मविम्बार्चके // लोके भक्तिभराश्चिते तमभित-श्श्रीशान्तिनाथं प्रभुं / नत्वा सर्ग इमां करोति सुकृती, व्याख्यां तुरीये वराम् // 1 // अथ चतुर्थसर्गनिर्विघ्नसमाप्त्यर्थं प्रथमं मङ्गलमाचरति-उपास्येतिउपास्य यस्याङ्कमनाप्यमन्यैर्विलोचनानामबलाजनानाम् / मृगो बभाराप्युपमानभावं, शान्तिप्रभुर्वस्तनुतां स शर्म // 1 // व्याख्या-यस्य-प्रभोः / अन्यैः-इतरप्राणिभिः / अनाप्यम्-अलभ्यम् ।अङ्क-चिह्नम् / उपास्यपरिषेव्य, श्रीशान्तिनाथस्य मृगाङ्कत्वादितिभावः / मृगः- हरिणोऽपि, अबलाजनाना-नारीणां / विलोचनानां-नेत्राणाम् / उपमानभावम्-उपमानत्वम् / बभार-प्राप, नारीणां 'अलसेक्षणा मृगाक्षी मत्तेभगमनापि च' इति हैमोक्तेः, मृगाक्ष्यादि पदवाच्यत्वादिति भावः / सः-प्रसिद्धः / शान्तिप्रभुः-श्रीशान्तिनाथाख्यषोडशतीर्थङ्करः / वः-अध्येत्रध्यापकानां / शर्म-सुखम्, 'शर्मशातसुखानि चे' त्यमरः / तनुतांविस्तारयतु // 1 // अथ मङ्गलकुम्भविवाहाङ्गभूततत्पत्नीकुल:दि वर्णयति-इतश्च चम्पानगरीति- . इतश्च चम्पानगरी प्रसिद्धा, कलिङ्गदेशे विषयावतंसे / भोगीशिता यामवलोक्य रम्यां,भोगावती स्वामध एव चक्र॥२॥ व्याख्या-इतश्च–पक्षान्तरे / विषयावतंसे-विषयानां देशानाम् अवंतसे भूषणस्वरूपे / कलिंगदेशेचम्पानगरी प्रसिद्धा, याम्-चम्पानगरीम् / अवलोक्य, भोगीशिता-नागाधिपः / रम्यां-मनोहरां / स्वां-निजां। भोगावती- तदाख्यनगरीम्, 'तेषां भोमावती पुरी' इति हैमः / अधः-नीचैः पाताले /