________________ [ 195] असमम्-इतरविलक्षणम् / नियतं - निरन्तरं / परमेश्वरम-जिनेशम् / आराधयद्भिः-सेवमानैः / नियमिभिः-नियमवद्भिः / कथञ्चित्-महता प्रयासेन / सम्प्राप्यते // 148 // अथ तस्य सन्धिवयोऽवस्थानमाह-विज्ञाप्येतिविज्ञाप्य स्वमुखेन तातचरणान्, कल्याणरुक् प्रीणितान् / गत्वाऽऽराममुपानयत् स सततं, पुष्पाणि मालाकृतः / अभ्यस्यत् सकल: कलाश्च वयसोर्मध्य जगाहे द्वयोः, कुम्भाख्यो बहुशावभावयुवता-प्रख्यातनाम्नोरयम् // 149 // व्याख्या-कल्याणरुकप्रीणितान-कल्याणया मङ्गलया रुचा कान्त्या, यद्वा कल्याणकारिणी रुग्द्यतिस्तया प्रीणितान् प्रसादितान् / तातचरणान्-पितॄन् / स्वमुखेन-स्वयमेव / विज्ञाप्य-निवेद्य / स:मङ्गलकुम्भः / सततं-प्रतिदिनम् / आरामं, गत्वा, मालाकृतः-मालिकाव / पुष्पाणि, उपानयत्आनयति स्म / तथा सकला:-समग्राः / कला:-विद्याश्च अभ्यस्यत्-अधीयानः / अयं कुम्भाख्यःबालः / बहुशावभावयुवताप्रख्यातनाम्नो-बहुशावस्य बालस्य भावः युवता यौवनश्च, ताभ्यां प्रख्याते नामनी ययोस्तयोः द्वयोः बाल्ययुवत्वयोः / वयसो:-अवस्थयोः / मध्यं-सन्धिं / जगाहे-प्रविवेश, षोडशवर्षो जातः, इत्यर्थः / / 149 // आसीत् श्रीगुरुगच्छमौलिमुकुटश्रीमान भद्रप्रभो, पट्ट श्रीगुणभद्रसूरिसुगुरुर्विद्यावतां सद्गुरुः। तच्छिष्येण कृतेऽत्र षोडशजिनाधीशस्य वृत्ते महा काव्ये श्रीमुनिभद्रसूरिकविना सर्गस्तृतीयोऽगमत् // 150 // व्याख्या-आसीदित्यादिश्लोकः पूर्वमेव व्याख्यात इति, व्याख्यातपूर्व एवेति बोध्यम् // 150 // या भक्तिर्गुरुनेमिसरिचरणे, शक्तिस्तु या भाविकी, नैपुण्यं बहुलोकशाखरचना-द्यालोचनातोऽपि यत् / अभ्यासो बुधशिक्षया समभवद्, योऽसौ समस्तैस्तु तैाख्यापूर्तिमियं च दर्शनभवा, सर्गे तृतीये गता // 3 // 卐 // समाप्तोऽयं सम्याल्यस्हवीयः सर्गः / /