________________ [ 194 ] मनोहरा या लागली-नालिकेरवृक्षस्तस्यास्तनूनि यानि महाफलानि तेषां लुम्बि-गुच्छं तेन युञ्जि-युक्तानि, यद्वा सलाङ्गली-शोभननालिकेरफलं च तनुमहाफलानि च तेषां लुम्बि तेन युञ्जि / 'नालिकेरस्तु लागली' इति हैमः, 'गुलंछुलुम्बी अपि' इति हैमशेषः / मनोरमाणि, विपुलानि-प्रचुराणि / रम्माफलानिकदलीफलानि, कदली वारणबुसा रम्भा मोचांऽशमत्फला,' इत्यमरः / आशु.व्यतर-ददौ // 145 // . अथ तयोः स्वभवनं प्रति परावृत्तिमाह-प्रोत्फुन्लेतिप्रोत्फुल्लचम्पकसुमानि सकेतकानि, जाम्बूनदोपपदजातिसुमानि लात्वा / व्यावर्तत स्वभवनं प्रति वाणिजेशः,प्रीतिं परां कलयता तनयेन सार्द्धम्॥१४६॥ - व्याख्या- सकेतनानि-पुन्नागनागकेसरकुसुमकलितानि, 'केतनं पुन्नागे नागकेसरसिंहयो' रिति हैमानेकार्थः / प्रोत्फुल्लचम्पकसमानि-प्रोत्फुल्लानि विकस्वराणि चम्पकानां सुमानि पुष्पाणि / जाम्बूनदोपपदजातिसमानि-जाम्बूनदमुपपदम् येषां जातिसुमानां पीतवर्णजातिपुष्पाणां तानि तथा, स्वर्णमालतीपुष्पाणीत्यर्थः / 'जातिस्तु मालती'ति हैमः / लात्वा-आदाय / वाणिजेश:-श्रेष्ठिवरः धनदत्तः / पराम्-उस्कृष्टां / प्रीति-मोदं / कलयता-धारयता, अभिनवोपवनदर्शनेनेति भावः / तनयेन-पुत्रेण / सा म्-सह / स्वभवनं प्रति व्यावतत-न्यवर्त्तत / / 146 // अथ गृहसमागतस्य तस्य चरितमाह श्लोकद्वयेन–आनन्येत्यादिआनन्द्यमानमनसां जननीं प्रकुर्वन्नालिङ्गनेन वचनेन च सम्मतेन / यच्छन् फलानि वनपालसमर्पितानि, तानि स्वयं परिजनाय यथाक्रमेण // 147 // व्याख्या-आलिङ्गनेन-आश्लेषेण / संमतेन-इष्टेन / वचनेन च जननी-मातरम् / आनन्द्यमानमनसाम्-आनन्दं प्राप्नुवन आनन्द्यमानं-प्रमोदं गच्छत् मनः यस्यास्सा तादृशी ताम् / प्रकुर्वन, वनपालसमर्पितानि-वनपालेन मालिकेन समर्पितानि दत्तानि / तानि-पूर्वोक्तानि / फलानि, स्वयम्आत्मनैव, न तु प्रेरणया, एतेन बाल्यादेवोदारबुद्धिः सूचिता / परिजनाय-परिवाराय / यथाक्रमम्, यच्छन्–ददत् / अस्य प्रमदमापदित्यप्रेणान्वयः // 147 // पश्यन जिनाधिपतिपूजनमेकतानस्तं कञ्चनप्रमदमापदयं स्वतोऽपि / आराधयद्भिरसमं परमेश्वरं यः, मम्प्राप्यते नियमिभिर्नियतं कथञ्चित् // 148 // व्याख्या-जिनाधिपतिपूजनं-जिनाधिपतेः पूजनम् / एकतान:-एकाग्रः सन् / पश्यन् अयंबालः / स्वतः-स्वयमपि / तं कश्चन-अनिर्वचनीयं / प्रमदं-हर्षम् / आपत्-प्रापद / यः-प्रमदः /