________________ [ 193.] अथ मालिकोत्सुक्यमाह- तं बालकमितितं बालकं समवलोक्य समावजन्तं, पीयूषवर्षमिव लोचनयोः सृजन्तम् / प्रपच्छ मालिकवरोधनदित्तमिभ्यं,कोऽयं नवोत्र भवता समुपैति चेति // 143 // ___व्याख्या-लोचनयो:-नयनयोः / पीयूषवर्ष-पीयूषस्यामृतस्य वर्ष वृष्टिंम् / इव-वृष्टिवर्षमि'त्यमरः / सृजन्तं-कुर्वन्तम् / तं बालकं समावजन्तं-समायान्तं / समवलोक्य-दृष्ट्वा / मालिकवरः, इभ्यं-श्रेष्ठिनं / धनदत्तं प्रपच्छ--किमित्याह / अत्र-उद्याने / कः अयम्--पूर्वमदृष्टः अत एव / नवःनूतनः / भवता समं-सह / ऐति-आगच्छति / चेति-पप्रच्छेत्यन्वयः / समुपैति, इतिपाठे तु, सहायातीत्यर्थः / / 144 // अथ परिचित्य तस्य तत्सत्कारमाह-मूनुरितिसूनुर्ममायमतिजातकुतूहलः सन्नाराममागमदवेक्षितुमेव तेऽद्य / इभ्यप्रभूदितमिदं विनिशम्य सम्यक्. जम्बीरदाडिमफलानि ददौ स तस्मै // 144 // व्याख्या-अद्य, अयं-त्वया पृष्टः / मम सूनुः-पुत्रः / अतिजातकुतूहल:-अति अत्यन्तं जातं कुतूहलं वनावलोकनौत्सुक्यं यस्य स तादृशः / सन् ते-नव / आरामम्-उपवनम् / अवेक्षितुम्अवलोकितुम् / एव-नतु तत्र प्रयोजनान्तरमिति भावः / आगमत्, इदम्-एतत् / इम्पप्रभूदितम्इभ्यप्रभुणा श्रेष्ठिवरेण उदितं कथितं / सम्यग. विनिशम्य-यथार्थं श्रुत्वा / सः-मालिकवरः / तस्मै-मंगलकुम्भाय / जम्बीरदाडिमफलानि -जम्बीरदाडिमानाम् उपलक्षणतया अन्येषामपि फलानि / ददौ-अर्पयामास // 144 // तस्मै फलान्तरदानमप्याह-रम्भाफलानीतिरम्भाफलानि विपुलानि मनोरमाणि, सल्लाङ्गलीतनुमहाफललुम्बियुञ्जि / आरामिको व्यतरदाशु निवारितोऽपि,त्यागोद्धतेन किल तजनकेन मेति।।१४५॥ व्याख्या-त्यागोद्धतेन-त्यागे दाने “दानमुत्सर्जनं त्यागः” इति हैमः, उद्धतेन उत्कटेन वदान्येनेत्यर्थः / तजनकन-तस्य बालस्य जनकेन पित्रा श्रेष्ठिना / मा-न ददस्व / इत्येवं, किलेत्यलीके / निवारितः-निषिद्धः / अपि आरामिक:-मालिकः अतिस्नेहभावाद्धेतोः / सल्लागलोतनुमहाफललुम्बियुजि