________________ [19] पुष्पाणीव आयता दीधी बाकी च चंचुसोटिः 'चुलोटिकभी लियो,' इत्यमरः, बेतात मशान्, तथा। लीलाचलचरणचंक्रमणैकचुश्चन् - लीलया चलता चलनव्यापारवतां चरणनाम् कंकमणे विशेष एकमसाधारणं चुछन् प्रसिद्धान्, हंसगमनप्राशस्त्यम् प्रसिद्धमिति भावः / तथा क्षोरोदसागरतरङ्गसदृक्षपक्षान्क्षीरोदः तदाख्यसागरः त्य तरः सदृक्षाः तुल्याः पक्षाः गरुतः येषां तान् तादृशान् श्वेतपक्षान्, 'पक्षो गच्छद वापि' इति हैमः / पचारादनपरान-पद्माकुराणाम् अदने भक्षणे परान् आसक्तान् / हंसान-दर्शयतेत्य· नुषज्यते // 14 // चक्री प्रियां बिशलताशकलार्पणेन, प्रेमप्रकाशमनुरञ्जयतो यथेच्छम् / कुत्राप्यगाधसरसीं निकषैव चक्रानाराममासददयं जनकेन साकम् // 141 // व्याख्या कुत्रापि, अगाधसरसी-हृदं / निकषा-समीपे / एव, चक्री-चक्रवाकी / प्रियांकान्ताम् / विशलताशकलार्पणेन-विशलतायाः विशं मृणालम् 'मृणाले तु विशं विसमिति द्विरूपकोशः तस्य लतायाः शकलानां खण्डानां "खण्डेऽर्धशकले' इति हैमः अर्पणेन प्रदानेन / यथेच्छम्-इच्छामनुसृत्य / प्रेमप्रकाश-प्रेम्णः प्रकाशः प्रकटनं यथा स्यात्तथा / अनुरञ्जयतो:-अनुकूलयतः / चकान-कोकान्, 'कोकश्चक्रचक्रवाक, इत्यमरः', दर्शयतेत्यनुषज्यते / जनकेन, साक-सह / अयं-मंगलकुम्भः / आरामम्-उद्यानम्, आसदत्-प्राप / // 14 // अथ तयोरुपवनप्रवेशमाह-भास्वदितिभास्वत्करप्रसरवारणमाऽऽदधानं, छायाभरण विततोद्गतभूरुहाणाम् / सान्द्रीभवकिसलयच्छदनाञ्चितानां, स श्रेष्ठिसूरुपवनं प्रविवेश तच्च // 142 // व्याख्या-सः, अष्ठिम्:-मङ्गलकुम्भः / सान्द्रीभवकिसलयच्छदनाश्चिताना-सान्द्रीभवन्ति यानि किसलयानि पल्लवाः "किसलयं किसलं पल्लयोऽऽत्र तु” इति हैमः, तेषां छदनैः पत्रैः अनितानां समन्वितानाम् ‘पत्रं पलाशं छिदनमि'त्यमरः / विततोद्गतभूम्हाणां-विततानां विस्तृतानामुगतानामुन्नतानान्न मूरुहाणां तरूणाम् / छायामरेण-छायायाः भरेणातिशयेन / भास्वत्करप्रसरवारणं-भास्वतः सूर्यस्य कराणां किरणामां प्रसरस्थ प्रवेशस्य वारणम् / मादधानं-कुर्वाणम् / तच उपवनम्-आरामं / प्रविवेश // 142 //