________________ [ 191 ] लाभेन मत्तमेकत्रानवस्थितम् , इतस्ततो धावमानमित्यर्थः / तर्णककुलं-तर्णकाणां वत्सानां 'वत्सः शकृत्करिस्तर्णः' इतिहैमः कुलं समूह / समवेक्षमाणः-अवलोकमानः // 137 / / छायां भजन क्वचिदपि श्रमधर्मतोयै-राप्लावितः समुदयत्सुकुमारभावः / अभ्रंलिहावनिरुहावलिलक्ष्यमाणां, दूरादवैक्षत वनीमवनः श्रियां सः // 138 // __व्याख्या-क्वचिदपि, समुदयत्सुकुमारभावः-समुदयन् वृद्धिं गच्छन् सुकुमारभावः सुकोमलता यस्य स तादृशः, अत एव / श्रमधर्मतोय:-श्रमेण अध्वखेदेन यः धर्मः उष्णताजन्यः स्वेदः तद्रूपैः तोयैः जलैः। . आल्पावितः-स्नात इव / छायाम्-अनातपम् , शैत्यार्थमिति भावः / मजन्- सेवमानः / श्रियाम्शोभानाम् / अवन:-आवासः / स-बालः मङ्गलकुम्भः / अभ्रंलिहावनिरुहावलिलक्ष्यमाणाम्-अभ्रंलिहाः / गगनचुम्बिनः अत्युच्चा इत्यर्थः, ये अवनिरुहाः वृक्षाः तेषाम् आवल्या श्रेण्या लक्ष्यमाणाम् अवलोकनीयाम् परिचेयाश्च / वनीम्-आरामं / दूराद वैधत-ददर्श // 138 / / अथ तस्यारामप्राप्तिं त्रिभिराह-पुंस्कोकिलानितिपुंस्कोकिलान् क्वचन दर्शयता रसालशाखाप्रदेशमवलम्ब्य सुखं निविष्टान् / पीयूषपारणविधिं श्रवसां जनानामातन्वतः सुमधुरस्वरगीतभङ्गया // 139 // ___व्याख्या --वचन, रसालशाखाप्रदेश-रसालानामाम्राणां शाखानां प्रदेशम् भागम् / अवलम्ब्यआश्रित्य / सुख-यथा स्यात्तथा, अनुपद्रवमित्यर्थः / निविष्टान्–कृतनिवासान्, उपविष्टानित्यर्थः। सुमधुरस्वरगीतमङ्गया-सुमधुरेण श्रवणमनोहरेण स्वरेण यद्गीतं तस्य भङ्गथा रचनया। जनानां श्रवसां-कर्णानाम् / पीयूषपारणविधि-पीयूषेण सुधया यः पारणविधिः व्रतान्तभोजनं तम् / आतन्वतः- सम्पादयतः / पुंस्कोकिलान-पुरुषजातिकान् पिकान् ‘कोकिलः पिकः कलकण्ठ' इत्यमरः / दर्शयता-अवलोकयता, अस्य जनकेनेत्यनेन अग्रेणान्वयः / / 139 / / व्याकोशकिंशुकसुमायतचारुचञ्चून,लीलाचलचरणचङ्क मणेकचुञ्च न् / क्षीरोदसागरतरङ्गसदृक्षपक्षान्, पद्मांकुरादनपरान् वचनापि हंसान् // 140 // व्याख्या-कचनाऽपि, व्याकोशकिंशुकसमायतचारुचश्चन्-व्याकोशानि विकंचानि विकस्वराणीत्यर्थः, "व्याकोशं विकचम्" इति हैमः / यानि किंशुकानि पलाशानि "पलाशः स्याद किंशुकः” इति हैमः, तेषां सुमानि