________________ . [190 ] ... अथ शिशुस्वात्तस्य तत्तद्विषयोत्सुकतामाह चतुर्भिः श्लोकः-पृच्छनित्यादिपृच्छन् कचिद्विटपिनां विटपानतानां, नामानि लोकविदितान्यपि नश्रुतानि / वल्लीदलानि विपुलानि सविस्मयःसन् ,गृहणन् कचिच्छिशुतयाऽतिचलाचलत्वात् // व्याख्या-सविस्मयः-साश्चर्यः / सन्-नवनववस्तुदर्शनादितिभावः / क्वचित् , विटपानतानांविटपैः पल्लवैः शाखाभिश्च आनतानां नम्राणां / विटपिना-तरूणां / लोकविदितानि-लोके प्रसिद्धान्यपि, नश्रुतानि नामानि पृच्छन् कचिच्च, शिशुतया-बाल्याखेतोः / अतिचलाचलत्वाद्-अतिचञ्चलत्वात् / विपुलानि-बहूनि / वल्लीदलानि-वल्लीनां लतानां दलानि पत्राणि / गृहणन-बालकानामेष स्वभाव एवेति भावः // 135 // उद्यदिनाधिपतिमण्डलसन्निभानि, कुत्रापि पाककलकोलफलानि चिन्वन् / गोपाङ्गनाः क्वचन लोचनगोचरेऽपि, कुर्वन् पयोदधिघटीः शिरसाऽऽदधानाः।१३६ व्याख्या-कुत्रापि, उद्यदिनाधिपतिमण्डलसन्नि भानि-उद्यतः उदयं गच्छत. दिनाधिपतेः सूर्यस्य मण्डलेन बिम्बेन सन्निभानि तुल्यानि, एतच्चौत्सुक्यहेतुः / पाककलकोलफलानि-पाकेन कलानि मधुराणि कोलाख्यफलानि / चिन्वन्-संगृह्णन् / क्वचन, पयोदधिघटी:-पयांसि क्षीराणि दधीनि च तेषां घटीः गर्गरीः / शिरसा-मस्तकेन / आदधाना:-नीयमानाः / गोपाङ्गनाः-गोपीः / अपि लोचनगोचरे,कुर्वन्पश्यन्नित्यर्थः // 136 // दूर्वाप्रवालशकलानि सुकोमलानि, भास्वत्तुरङ्गमतनूरुहसोदराणि / मत्तं पुरीपरिसरे परितश्चरन्तं, कुत्रापि तर्णककुलं समवेक्षमाणः // 137 // ___ व्याख्या कुत्रापि,पुरीपरिसरे-नगरपर्यन्तभुवि ‘पर्यन्तभूः परिसरः, इति हैमः / ' भास्वत्तुरङ्गमतनरुहसोदराणि-भास्वतः सूर्यस्य 'भास्वद्विवस्वत्सप्ताश्वे'त्यमरः / तुरङ्गमाणां हयानां तनूरहाणां रोमाणां सोदराणि तुल्यानि हरितानोत्यर्थः / सूर्यतुरङ्गाणां हरितवर्णत्वादितिभवः / अत एव सुकोमलानि, दुर्वाप्रवालशकलानि-दूर्वाणां हरितालीनां “दूर्वा त्वनन्ता शतपर्विका हरिताली" इति हैमः / प्रवालानां नवपल्लवानां, किसलं पल्लवोऽत्र तु नवे प्रवालः इति हैमः / शकलानि खण्डान् / परितः-समन्तात् / चरन्तम्-अत एव सुधास