________________ - - [199) निवति-निषेछ / विप्रेमालाश्यमाथासति भावः / पुष्पण्डिसमारतया-पुष्यत्पुष्टिगच्छत् अचिरविकसमानमित्यर्थः, यच्छिीषं तदाख्यासमं तदिव सुकुमारतया मृदुतया, गमनादिना श्रमसम्भवभयादितिभावः / नेतुं-सह आगन्तुं / न च शक्त:-समर्थः / अभवत्-एतेन पितुः लोकागुता दया प्रीतिश्च सूचिता / अपनवर्तिशैल:-अयने मार्गे वर्तते इत्येवं कीलो अयववर्ती स तदशः शैलः / कूलधारयमिवकूलषायाः नद्याः रयं वेगं प्रवाहमिव / यथा नदीप्रवाहं मार्गस्थः शैलः न निषेधुं नापि अप्रे गमयितु समर्थो भवति तथेत्यर्थः // 132 // अथ तस्य सहनयनमाह तस्याग्रहमिति-- तस्याग्रहं शिशुतया:विनिवार्यमार्यत्रित्ते विचार्य सममेव समाप तं तम् / जाम्बूनदाभरणभूषितपाणिकण्ठं, मञ्जुस्वरावजितकोकिलकण्ठनालम् // 133 // व्याख्या-आर्य:-उत्तमाचरणः स श्रेष्ठी / चित्ते,तस्य-बालकस्य / आग्रह-हठम्। शिशुतया-बाल्येन हेतुना / अविनिवार्यम्-आपरावर्तनीयम् / विधार्य-बालहठो हि दुर्निवारो भवतीति भावः / सम-सह / एवं मञ्जुस्वरावजितकोकिलकण्ठनालं-मञ्जस्वरेण मधुरस्वरेण अवजितमधरीकृतं कोकिलस्य कण्ठनालं येन तं तादृशं कोकिलस्वरजेतृस्वरम् / जाम्बूनदाभरणभूषितपाणिकण्ठं-जाम्बूनदानां सुवर्णानामाभरणैः भूषितः पाणिः कण्ठश्च यस्य तं तादृशं / तं-बालं / तमारामम् / समाप-निनाये / समापतं तं-आगच्छतं, निनायेति शेषः // 133 // अथोभयोः वनगमनकालिकशोभा वर्णयति-साक्षादितिसाक्षात् षडानन इवेष महेश्वरेण, श्रीमाञ्जयन्त इव जम्भनिषूदनेन / पद्मालयांप्रणयिनेव सुमेषुवीरो, गच्छन् समं स जनकेन विराजते स्म // 134 // व्याख्या-महेश्वरेण-शिवेन सह / साक्षात् षडानन:-कार्तिकेयः, / इव,जम्भनिषूदनेन-जम्भद्विषा जम्भस्यासुरस्य रिपुणा इन्द्रेण, सह / श्रीमान् जयन्त इव, पद्मालयाप्रणपिना--पद्मालया लक्ष्मी, 'लक्ष्मी पद्मालया पद्मा,' इत्यमरः, तत्याः प्रणयी कृष्णः तेन, सह / सुमेषुवीरः-सुमानि पुष्पाणि इषवः वाणाः यस्य सः चासौ वीरश्च स कामदेवः / इन, जनकन-पित्रा। समं गच्छन्-एव / स-बालः / विराजते-स्म शोभते स्म, अत्र मालोपमाऽलङ्कारः // 134 //