________________ [ 188] किमित्याह / मनु-भोः / सातपादाः-पूज्याः पितरः ! मषि, सत्पषि-वर्तमानेऽपि / सिद्धपै-कार्यार्थ / किं-कस्मात् / स्वयम्-आत्मना / वा-एव / प्रयात-गच्छत / मामेव तदाबापयेति भावः // 129 // अथ जनककृतोत्तरमाह-स्मित्वा जगादेति-- स्मित्वा जगाद जनकः प्रियपुत्र! याम्यानेतु सुमानि जगदीश्वरपूजनार्थम् / आराममुद्गतफलाभ्युदयाभिराममामोदमाशु जनयन्तमुपागतानाम् // 130 // व्याख्या-जनक:-पिता धनदत्तः / स्मित्वा-ईषद्विहस्य, पुत्रविनयदर्शनेन हर्ष इति भावः / नगाद-उवाच, किमित्याह / प्रियपुत्र ! जगदीश्वरपूजनार्थ-जगदीश्वरस्य जिनेश्वरस्य पूजनार्थ / सुमानिपुष्पाणि / आनेतुम् , उद्गतफलाभ्युदयाभिरामम्-उद्तैरुत्पन्नैः फलैरभ्युदयो विकसनं तेन अथवा उद्गतानि जातानि फलितानीत्यर्थः, फलान्येवाभ्युदयः सौभाग्यसम्पद तेनाभिरामं मनोहरम् / अत एव उपागतानाम्समागतानाम् जनानाम् / आशु-सद्य एव / आमोद-सुरभिम् संहर्ष 'प्रमोदामोदसंमदाः' इत्यमरः / ननयन्तं-कुर्वन्तम् / आरामम्-उपवनं / यामि // 130 // अथ पुत्रभावमाह-पित्राम्पुदीस्तिमिदमितिपित्राभ्युदीरितमिदं विनिशम्य पुत्रः, प्रोवाच वाचमतिमात्रविनीतधुर्यः / आज्ञाप्यते यदि भवद्भिरनुग्रहेणारामं तमप्यहमुपैमि समं भवद्भिः // 131 // __व्याख्या-पित्रा-जनकेन / अभ्युदीरितम्-कथितम् / इदं-पूर्वोक्तं / विनिशम्य-श्रुत्वा / अतिमात्रविनीतर्य:-अतिमात्रमत्यन्तं विनोतानां नम्राणां धुर्थोऽग्रेसरः, पुत्रः, वाचं प्रोवाच / किमित्याह-यदि भवद्भिः अनुग्रहेण कृपया। आज्ञाप्यते-आज्ञा क्रियते तदा भवद्भिः समं-सह / अहमपि तं-भवद्भिर्वर्णितम् / आरामम्उपैमि-आगच्छामि / विनयी हि पुत्रः न पितुराज्ञां विना किमपि करोतोति भावः // 131 / / अथ पितुः निषेधविध्योऽप्रतिपत्तिमाह-अत्यन्तेतिअत्यन्तवल्लभतया न निवर्तितु तं, पुण्यच्छिरीषसुकमारतया न नेतुम् / शक्तोऽभवत् स भुवनाद्भुतभागधेयः, कूलङ्कषारयमिवायनवर्तिशैलः // 132 // न्याख्या-भुवनाद्भुतमागधेयः-मुवनेषु लोकेषु अद्भुतमसाधारणं भागधेयं भाग्यं "देवं दिष्टं भागधेयं भाग्यं स्त्री निवतिविधिः” इत्यमरः, यस्य सः, धनदत्तः / अत्यन्तवलमतया-अतिप्रियतया / तं-बालं /