________________ [ 187 ] ज्योतिर्विदोऽपि विनिवार्य सुवासिनीश्व, नैमित्तिकानपि कलाकुशलानशेषान् / सन्मङ्गलश्रुति च मङ्गलकुम्भ इत्याब्रह्माण्डमाकलितशारदचन्द्रकीर्ति व्याख्या-ज्योतिर्विदः-दैवज्ञान् / सुवासिनी:-वधूश्च, नैमित्तिकान्- निमित्तं शकुनं तज्जानन्तीति तान् शाकुनिकानपि, अशेषान् - सकलानन्यान् / कलाकुशलान्-कलासु विद्यासु कुशलान् निपुणान् / अपि, विनिवार्य-तत्तवकथितनामधेयमस्वीकृत्य स्वप्नसूचनेन पुत्रो जात इति तदनुसार्येव नाम भवतु इति श्रद्वयेति भावः / आब्रह्माण्डम् -ब्रह्माण्डं यावत्, विश्वस्मिन् / आकलितशारदचन्द्रकीति:-आकलिता व्याप्ता शरच्चन्द्रतुल्या कीर्तिः यस्य सः तादृश श्रेष्ठी / सन्मङ्गलश्रति-सतो विद्यमानस्य समीचीनस्य वा मङ्गलस्य तच्छब्दस्य श्रुतिः श्रवणं यस्मिन् तादृशं स्वप्नानुसारी इत्यनुषज्यते / मङ्गलकुम्भ इति-इत्याकारकम् / नामनामधेयं / ततान-चकारेति पूर्वश्लोकेनान्वयः / / 127 / / अथ धात्रीभिर्लालितः सोऽष्टाब्दो जात इत्याह-धात्रीभिरितिधात्रीभिरुज्ज्वलरसोदयसृत्वरीभिर्विश्वम्भरारुह इवाचल सारिणीभिः / संवर्द्धमानसुभगः परिपाल्यमानो, जज्ञे जनप्रमददोऽष्टसमः क्रमासः // 128 // व्याख्या-धात्रीभिः पञ्चभिरुपमातृभिः “धात्री तु स्यादुपमाता” इति हैमः / उज्ज्वलरसोदयसृत्वरीभिः-उज्वलः विशदः निर्मलश्च यः रसः अनुरागः जलश्च तस्योदयेनाविर्भावेन सृत्वरीभिः गतिशीलाभिः / अचलसारिणीभिः-अचलस्य पर्वतस्य सारिणोभिः लघुनदोभिः अचलाभिवो सारिणीभिः कुल्याभिः 'प्रसारण्यां स्वल्पनद्यां च सारणोति' मेदिनो, 'कुल्या च सारणो' इति हैमः / विश्वम्भरारुहः-महीरुहः / स इव, परिपाल्यमानः-लाल्यमानः / अथ च संवर्धमानः, अतएव सुभगः-सुन्दरः / तथा जनप्रमददःजनानां प्रमददः हर्षदः / सः-मङ्गलकुम्भः / क्रमात अष्टसमः-अष्टवर्षो / जज्ञे-जातः / / 128 / / अथ शैशवेऽपि तस्योत्तमप्रवृत्तिमाह-दृष्ट्वेतिदृष्ट्वा प्रयान्तमपरेधुरुदारचित्तं, तातं वनीं प्रति स मङ्गलकुम्भ एतत् / / व्याचष्ट मंगलमुखो ननु तातपादाः, सिद्धय प्रयात मयि सत्यपि किं स्वयं वा।१२९ व्याख्या-अपरेधु:-एकदा / उदारचित्तं-विशालमनस्कं / तातं-पितरं / बनीम्-उद्यानम् / प्रति, प्रयान्तं-गच्छन्तम् / दृष्ट्वा, मङ्गलमुखः-शुभवदनः / स, मंगलकुम्भः, एतत् व्याचष्ट-कथितवान्,