________________ [ 186 ] ...., व्याख्या-प्रोद्यत्प्रमोदनिवहः-प्रोद्यन् आविर्भवन् प्रमोदस्य प्रहर्षस्य निवहः भरः यस्य सः / सः-धनदत्तः / पुरसुन्दरीणां-पुरन्ध्रीणाम् / इति–पूर्वोक्तप्रकाराः / आशिषः-शुभवचनानि / हृदये, बहुधावारंवारम् / अभिनन्ध-प्रशस्य / शरदिन्दुमयूखजालव्यूतिभ्रमं-शरदः तदाख्योः यः इन्दुश्चन्द्रः तस्य मयूखजालैः चन्द्रिकावृन्दैरेव तन्तुरूपैः व्यूतिः वानम् “वाणिव्यू तिः द्वे तन्तुवानस्ये”त्यमरः, तस्य भ्रम भ्रान्ति / विरचयन्ति-कुर्वन्ति / अंशुकानि-क्षौमवस्त्राणि / दत्त्वा, ता:-पुरस्त्री / विसृष्टवान्-गमयामास विसर्ज यति स्म // 14 // __ अथ पुत्रस्य शुभाय लोकानां भावमाह-द्रव्याणीति-- द्रव्याणि यानि स धनी विचिकाय षष्ठी-जागर्यिकामहमवाप्य सुतस्य तस्य / नो तानि कश्चिदपि च व्ययसात्करोति, पाणिग्रहेऽपि तनयस्य महर्द्धिकोऽपि।१२५ व्याख्या-स धनी-इभ्यः धनदत्तः / तस्य-जातस्य ।सुतस्य-पुत्रस्य / षष्ठीजागर्यिकामहं-षष्ठयां षष्ठे दिने यः जागर्यिकायाः जागरणस्य महः उत्सवः तम् 'उद्धर्षो मह उद्ध्व उत्सवः,' इत्यमरः / जातकस्य षष्ठ्या रात्रौ अर्चादिना जागरणं कुर्वन्तीति भावः / अवाप्य-प्राप्य / यानि, द्रव्याणि-धनानि / विचिकाय-ददौ, संगृहीतवांश्च / तानि-द्रव्याणि / कश्चिदपि-अन्योऽपि / महद्धिकोऽपि च, तनयस्य-पुत्रस्य / पाणिग्रहे-विवाहाऽवसरेऽपि, व्ययसात्-व्ययितानि / नो-नैव / करोति-एतेन तदानीमनल्पानि द्रव्याणि तस्य पुत्रस्यामङ्गलं मा भूत सर्वेषां च पुत्रोपरि शुभभावना सर्वदाऽस्त्वितिहेतोर्व्ययितानीति सूचितम् / / 125 / / . अथ जातकस्य नामकरणमाह-श्लोकयुग्मेन-जाते इत्यादिजाते महोत्सवभरे सकलेऽपि लोके, सम्मानित वसनचीनदुकूलदानैः / स्वप्नानुसारि तनयस्य ततान नाम, श्रेष्ठी महेन दशमेऽहनि सम्मदेन // 126 ___ व्याख्या-महोत्सवभरे–महोत्सवस्य भरोऽतिशयः तस्मिन् / जाते-सम्पन्ने। सकले-सर्वस्मिन्नपि, लोके-जने / वसनचीनदुकूलदानैः-वसनं कार्पासकं चीनदुकूलं चीनदेशोद्भवक्षौमवस्त्रं तस्य दानैः वितरणैः कृत्वा / सम्मानिते-पुरस्कृते सति च / श्रेष्ठी-धनदत्तः / महेन-उत्सवपूर्वकं / दशमे, अहनि-दिने / सम्मदेन-हर्षेण / तमयस्य-पुत्रस्य / स्वप्नानुसारि-पूर्वदृष्टस्वप्नानुकूलं / नाम-नामधेयं / ततानचकार / / 126 // : . . किन्तन्नामेत्याह-ज्योतिर्विदोषीति-- ....