________________ [ 185] व्यास्था-सीमान-धनदत्तः / तेषां सच्छात्राध्यापकानां / मालानि-पालयसानि / सुवासिनीम्य:-वधूभ्यः / विधिवत्-विधिपूर्वकं / कुछ मविशेषकभूषितानि-मस्य विशेषकैः तिक्कैः मूषितानि / विवाप्य-कारयित्वा 'तिलकचित्रकाणि विशेषक' इत्यमरः / मात्मशयतामरसेन-आत्मनः स्वस्य शवः करः 'शयः पाणिः' इत्यमरः / तामरस कमलमिव तेन / ताम्बूलं-नागवल्लीदलं / दत्वा, बहुलं-प्रचुरं / द्रव्यंधनं / प्रदाप्य-दापयित्वा / विससर्ज // 12 // - अथ मङ्गलतिलकार्य पौरस्त्रीणामागमनमाह-स्थालानोतिस्थालानि काञ्चनमयानि निवेश्य पाणौ, कुन्दोज्ज्वलाक्षतभृतानि समन्ततोऽपि / पौरस्त्रियो घुसृणचन्दनपात्रहस्ताः,कत्तु विशेषकमुपास्थिषताऽस्य पस्त्यम् // 122 ____ व्याख्या-कुन्दोज्ज्वलाक्षतभृतानि-कुन्दैः माध्यपुष्पैरिव माध्यं कुन्दमि' त्यमरः / उज्ज्वलैः विशदैः अझतैः ताण्डुलैः भूतानि पूर्णानि / काचनमयानि-स्वर्णनिर्मितानि / स्थालानि, पाणी-करे / निवेश्यकृत्वा / समन्ततः-सर्वतः / अपि, एतेन तस्य पौरप्रियत्वं सूचितम् / घुसृणचन्दनपात्रहस्ताः-घुसणं कुडुमं चन्दनं च येषु तादृशानि पात्राणि हस्ते यासां ताः तादृश्यः / पौरस्त्रियः, अस्य-धनदत्तस्य / विशेषकतिलकं / कर्तु, पस्त्यम्-गृहम् / उपास्थिषत-समागमन् // 122 // अथ तिलककरणप्रकारमाह-ता: श्रेष्ठिनमिति - ताः श्रेष्ठिनं समुपवेश्य चतुष्किकायां, भाले विधाय तिलकं वितताक्षतं च / विश्राण्य वानपरिपाकिमनालिकेरं, त्वं जीव नन्द भव पुत्रवतामधीशः // 123 // व्याख्या-ता:-समागताः पौरग्नियः / श्रेष्ठिन-धनदत्तं / चतुष्मिकायां-चतुष्पादविस्तीर्णयुक्तकाष्ठपीठे / समुपवेश्य, माले-श्रेष्ठिनः कपाले / तिलकं वितताक्षत-विस्तृततण्डुलं / च, विधाय-कृत्वा तथैव तिलककरणाचारादिति भावः / वानपरिपाकिमनालिकेरं-वानं शुष्कं तच्छुष्कं वानमिति'हैमः / परिपाकिम पक्वं च नालिकेरम् / विश्राण्य-दत्वा, तस्य शुभफलत्वादिति भावः / त्वं जीव नन्द, पुत्रवतांपुत्रिणाम् / अधीश:-श्रेष्ठः / भव-इति आशिषो ददुरिति शेषः / / 123 / / अथ ताभ्यस्तस्कृतपुरस्कारप्रदानमाह-इत्याशिष इति - इत्याशिषः स हृदये बहुधाभिनन्द्य, प्रोद्यत्प्रमोदनिवहः पुरसुन्दरीणाम् / दत्वांशुकानि शरदिन्दुमयूखजालन्यूतिभ्रम विरचयन्ति विसृष्टवांस्ताः // 124 //