________________ [184 ] तनुताण्डवेन-तनुना अल्पेन ताण्डकेन नाट्येन / बामुला-कुरुतां / किम्-अर्थात् न, अपि तु महाताण्ड वाडम्बरेणैव, महाडम्बरपुरस्सरम् पुत्रजन्मोत्सवम् कृतवानित्यर्थः / यद्वा तनुताण्डवेन शरीरनर्तनपुरस्सरम् , * उत्सवम् जन्ममहोत्सवम् , किं न तनुताम् , अपि तु तनुतामेवेत्यर्थः // 118 // अथ पुत्रजन्मप्रयुक्तहर्षेण कृत्यान्तरमाह-विज्ञप्येतिविज्ञप्य विज्ञतमताऽवमताप्रयजीवं, सर्वसहाधिपतिमेष महोपदाभिः / काराग्रहस्थितिमतः पुरुषान्समस्तान्, सत्कृत्य कृत्यविदरं व्यमुचन्महेच्छः॥११९ व्याख्या-महेच्छ:-उदारः / कृत्यविद्-विधिज्ञः / एष-धनदत्तः / विज्ञतमताऽत्रमताप्रथजीवंविज्ञतमतया बुद्धिमत्तया अवमतः निर्जितः अग्रथः विद्वदग्रणीः जीवः बृहस्पतिः येन तं तादृशं 'धिषणो गुरुः जीवः' इत्यमरः / सर्वसहाधिपति-पृथिव्याः ‘सर्वसहा वसुमती वसुधोर्वी' इत्यमरः, अधिपतिं प्रभु राजानम् / महोपदाभि:-उत्कृष्टोपायनदानपुरस्सरम् / विज्ञप्य-प्रार्थनया अनुकूलं कृत्वा / काराग्रहस्थितिमत:-कारागृहे दण्ड्यबन्धनगृहे स्थितिमतः स्थितान् , अपराधिनः बन्दिनः / समस्तान् पुरुषान-जनान् / सत्कृत्य-सादरम् / अरं-शीघ्रं / व्यमुचत्-व्यमोचयदित्यर्थः // 119 // ... अथ तदा दानाऽऽदानार्थमध्यापकागमनमाह-अध्यापकैरितिअध्यापकैर्मुकरमण्डलमप्रदेशे, वंशस्य शस्यमतिभिस्त्वरित निधाय / छात्रैः समं समुपगत्य पठद्भिरुच्चार समाश्रितममुष्य निकेतनस्य // 120 // व्याख्या-वंशस्य-वेणुदण्डस्य / अग्रदेशे-शिखरे / मुकुरमण्डलं-मुकुरस्य दर्पणस्य मण्डलं समूहूं। निधाय-कृत्वा, तथाऽऽचारादितिभावः / उच्चैः-तारस्वरेण / पठद्भिः-स्तुतिं कुर्वद्भिः। छात्रै:-शिष्यैः, "छात्रान्तेवासिनौ शिष्ये" इत्यमरः / समं-सह / शस्यमतिभिः-सुबुद्धिभिः / अध्यापक:-शिक्षकैः / त्वरितं-शीघ्रं / समुपगत्य-समागम्य / अमुष्य-धनदत्तस्य / निकेतनस्य-गृहस्य / द्वार समाश्रितम्दानादानेच्छयेति भावः // 120 // ... ' अथ तेभ्यस्तहानमाह-भालानीतिभालानि कुङ्कमविशेषकभूषितानि,तेषां विधाप्य विधिवत् स सुवासिनीभ्यः / ताम्बूलमालशयतामरसेन दला,द्रव्यं प्रदाप्य बहुलं विससर्ज धीमान // 121 //