________________ [183 ] अथ तस्याः पुत्रप्रसवमाह-प्रास्त सेतिपासूत सा तनयमद्भुतरूपसम्पत्संतर्जितामरकुमारकुमाररूपम् / विद्योतयन्तमभितस्तदरिष्टदीपतेजांसि केन्द्रपतितोचशुभग्रहेषु // 116 // व्याख्या-सा-सत्यभामा / केन्द्रपतितोच्चशुभग्रहेषु-केन्द्रे प्रथमचतुर्थसप्तमदशमस्थाने पतिताः स्थिताः उच्चाः स्वोच्चगृहस्थाः शुभग्रहाः तेषु सत्सु / तदरिष्टदीपतेजांसि-तस्यारिष्टस्य सूतिकागृहस्य 'अरिष्टं सूतिकागृहमिति' हैमः / दीपस्य तेजांसि / अभितः-सर्वतः, तदभिभूयेत्यर्थः / विद्योतयन्तं-प्रकाशयन्तम् / अद्भुतरूपसम्पत्सन्तर्जितामरकुमारकुमाररूपम्-अद्भुतस्य विलक्षणस्य रूपस्य सौन्दर्यस्य सम्पदा आधिक्येन सन्तर्जितं तिरस्कृतम् अमरकुमाराणां देवपुत्राणां कुमारस्य कार्तिकेयस्य च रूपं येन तादृशं / तनयं-पुत्रं / प्रामृत-सुषुवे // 116 // अथ तच्छ्रवणेन श्रेष्ठिनो हर्षातिरेकमाह-दासीजनैरितिदासीजनैद्रुतमुपेत्य सुतप्रभूत्या, श्रेष्ठी प्रहृष्टहृदयैरभिवर्द्धितोऽयम् / देयं न किंचन विवेद न चाप्यदेय, नादेयमेव परिपूर्णमनाः प्रमोदैः // 117 // __ व्याख्या-दासीजनैः-परिचारिकाजनैः / प्रहृष्टहृइयैः–प्रसन्नैः / द्रुतमुपेत्य-त्वरितमागत्य / सुतप्रभूत्या-(प्रसूत्या ) सुतस्य पुत्रस्य प्रभूत्या जन्मना / अमिवर्धित:-वर्धापितः / अयं, श्रेष्ठी-धनदत्तः / प्रमोदैः-प्रहर्षेः। परिपूर्णमना:-सन् / किञ्चन-किमपि / देयं-दासीजनाय बितरणीयमिति / न विवेद / तथा अदेयम्-एतन्न देयमित्यपि न च-विवेद / तथा आदेयम्-एतन्मया ग्राह्यमित्यपि / न-विवेद / हर्षातिरेकेण किं कर्त्तव्यताविमूढो जातः इति भावः // 117 // अथ तस्य जन्मोत्सवकरणमाह-पुत्रेतिपुत्रा भवन्ति भवने बहवोऽपि यस्य, जाते सुते वितनुतेऽपि महामहं सः। पापोपयाचितशतैस्तनयं तथा यः, किं नोत्सव स तनुतां तनुताण्डवेन // 11 // व्याख्या -यस्य-जनस्य / भवने-गृहे / बहवोऽपि, पुत्राः भवन्ति सोऽपि, सुते-पुत्रे / जाते-सति / महामह-महोत्सवम् / वितनुते-विदधाति / तथा यः उपयाचितशतैः-उपयाचितानि ' पुत्रार्थप्रार्थनानि तेषां शतैः / तनयं-पुत्रं / प्राय स-जनः / नोत्सवम्-न अविद्यमानः उत्सकः यतः त ताशम् महोत्सवम्। ..