________________ [ 182 ] तदुत्तरमाह-एततदुक्तमितिएतत्तदुक्तमवधार्य विचार्य बुद्धया, प्राह स्म विस्मितमनाः प्रमनाः स चाव्यः / जानेऽस्मि पूर्णकलसप्रविलोकनेन, सूनुस्तवेन्दुमुखि ! संभविताचिरेण // 113 // व्याख्या स च आत्यः-इभ्यः धनदत्तः / तदुक्तं-तया सत्यभामया उक्तं कथितम् / एतत्स्वप्नम् / अवधार्य-श्रुत्वा / बुद्धथा विचार्य विस्मितमना:-विस्मितं मनश्चित्तं यस्य स विस्मितमनाः / प्रमना:-प्रष्टं मनो यस्य स प्रमनाः प्रसन्नः / प्राह स्म-उवाच / किमित्याह / इन्दुमुखि ! पूर्णकलसप्रविलोकनेन तवाचिरेण-शीघ्रमेव, सूनुः पुत्रः / सम्भविता-भविष्यति इति / जानेऽस्मि-अहमवैमि // 11 // वाचं प्रियस्य परमार्थत एव सत्त्यां; मत्त्वा समुत्थितवती फलसंयुतानि / सा बिभ्रती प्रियतमप्रतिपादितानि, पुष्पाणि वासवसतिं स्ववशा विवेश॥११४ __व्याख्या-प्रियस्य-पत्युः / वाचं, परमार्थतः-निश्चयेन / सत्यां-यथार्था / मत्वा एव-खलु / समुत्थितवती-तत उत्थिता सती / प्रियतमप्रतिपादितानि-प्रियतमेन कान्तेन प्रतिपादितानि दत्तानि / फलसंयुतानि पुष्पाणि बिभ्रती-धारयन्ती / स्ववशा-स्थिरस्वभावा / सा वासवसति-वासगृहं / विवेश-ययौ // 114 // अथ तस्याः दोहदपूर्तिमाह-यान् दोहदानितियान दोहदान स्वहृदये बिभराम्बभूव, सा श्रेष्ठिराजदयिता कलिता गुणौघैः। पृच्छत्पुरन्ध्रिवदनेरितवाक्यभङ्गया, तान वल्लभः सपदि पूरयति स्म तस्याः।११५ व्याख्या-गुणौधेः-गुणानामोधैः समूहैः / कलिता-समन्विता। सा श्रेष्ठिराजदयिता-प्रेष्ठिराजस्य दयिता प्रिया, सत्यभामा / स्वहृदये यान्-यत्प्रकारान् / दोहदान्–गर्भकालिकमनोरथान् / विमराम्बभूवधारयामास / वनमः-प्रियः / तस्या:-सत्यभामायाः / तान्-दोहदान् / पृच्छत्पुरन्ध्रिवदनेरितवाक्यमाया-पृच्छन्तीनां जिज्ञासमानानाम् पुरन्ध्रीणां कुटुम्बिनारीणाम् "पुरन्ध्री तु कुटुम्बिनी" इतिहैमः / वदनैः मुखैः ईरितस्य कथितस्य वाक्यस्य भजया आशयेन रचनया ज्ञात्वेतिशेषः / सपदि-तदकालमेष / पूरयति स्म / एतेन तस्य सर्ववस्तुसौलभ्यमुक्तम् // 115 //