________________ [ 181] तस्याः स्वप्नसूचितमनधारणमाह-मर्ममितिगर्भ बभार धनदत्तधनेशभार्या, सा तत्प्रभृत्यपि मृता-सुकृतप्रभावः। स्वप्ने च पूर्णकलर्स सलिलैः अपूर्णमानच्छदेरपिहितं कलयाम्बभूव // 110 // . व्याख्या-सुकृतप्रभावैः-सुकृतस्य पुण्यस्य प्रभावैः / भृता-पूर्णा, पुण्यवती / सा धनदत्तधनेशभार्या-घनदत्तनाम्नः धनेशस्येभ्यस्य भार्या, सत्यभामा / तत्प्रभृत्यपि-तदारभ्यैव / गर्भ बमार-दधौ / स्वप्ने च, सलिलैः-जलैः / प्रपूर्ण-भरितम् / आम्रच्छदैः-आम्रस्य छदैः पत्रैः / अपिहितम्-आच्छादिनं / पूर्णकलसं कलयाम्बभूव-ददर्श // 11 // अथ स्वप्नदर्शनानन्तरं तत्कृत्यमाह-स्वप्नोति-. . स्वप्नोपलब्धिसमनन्तरमेवगन्धपुष्पाणि पाणिकमले विनिवेश्य धन्या / प्राणप्रियं मृदुवचोभिरुदारबुद्धिरुत्थाप्य सा प्रवदति स्म यथार्थमेवम् // 111 // व्याख्या-स्वप्नोपलब्धिसमनन्तरमेव-स्वप्नस्योपलब्धिः सन्दर्शनं तत्समनन्तरमेव / उदारबुद्धिःदाने कुशलबुद्धिशालिनी महाशयबुद्धिमती। धन्या भाग्यवती / सा-सत्यभामा / गन्धपुष्पाणि-सुरमिसुमानि / "गन्धो जनमनोहारी सुरभिर्घाणतर्पणः” इति हैमः। पाणिकमले-करकमले / विनिवेश्य-कृत्वा / प्राणप्रियंकान्तं / मृदुवचोभिः-कोमलवाग्भिः / उत्थाप्य-जागरयित्वा / यथार्थ-यथावृत्तम् / एवम्-वक्ष्यमाणप्रकारेण / प्रवदति स्म // 111 // ......... . स्वप्ने निरैक्षिषि विशेषविदां वराद्य-कल्याणपूर्णकलसं जलसंभृतं च / कीहक् फलं मम भविष्यति चास्य नाथ! तत्त्वं निवेदय मदअत एव तत्त्वम्॥११२॥ __व्याख्या-विशेषविदांवर !-विज्ञानां वर ! श्रेष्ठ ! अद्य स्वप्ने जलसम्भृतं-जलपूर्णश्च / कल्याणपूर्णकलश-कल्याणं मंगलं "कल्याणं मंगल शुभमि"त्यमरः / कल्याणस्य सुवर्णस्य वा 'कल्याणं कनकमिति'. हैमः / पूर्णकलशं / निरक्षिषि-व्यलोकयमहम् / नाथ !-स्वामिन् ! त्वमस्य-स्वप्नस्य / मम कीटक्।ि फार मविष्यति तत्तत्त्व-तद्रहस्यं / मदग्रत एव-न तु सङ्कोचादिना परोक्षे, अन्यथा मदुत्कण्ठा न विवर्धेत इति भावः / निवेदय-कथय, येन मजिज्ञासापूर्तिः स्यादितिभावः // 112 //