________________ [ 18.] ___ अथैवंकृतसुकृतफलप्राप्तिमाह-इत्याग्रहेणेतिइत्याग्रहेण महता निहतान्तराय, धर्म सदा विदधतोऽस्य धनेश्वरस्य / तुष्टा कश्चिदपि शासनदेवताऽसौ, पुत्रो भविष्यति तवेति मुदा शशंस // 107 // , व्याख्या-इति-पूर्वोक्तप्रकारेण / महता-अधिकेन / आग्रहेण-उत्साहेन / निहतान्तरायं-निहतः विनष्टः अन्तरायः विघ्नः यस्य तादृशं, निर्विघ्नं यथास्यात्तथा / सदा-सर्वदा / धर्म, विदधत:-कुर्वतः / अस्य धनेश्वरस्य-श्रेष्ठिनः धनदत्तस्य / क्थंचिदपि-भक्त्या / तुष्टा-प्रसन्ना / असौ-प्रसिद्धा / शासनदेवता तक पुत्रो भविष्यात इति-इत्थं / मुदा-प्रीत्या / शशंस-वरं ददौ // 10 // अथ तत्कृतशासनदेवताप्रणतिमाह-देवीवरे इतिदेवीवरे भवति तुष्टिमुपागतायां, नो दुर्लभं भवति किञ्चन वस्तुवृत्त्या। इत्युद्धतस्वरमुदीर्य कृताञ्जलिः स, साधर्मिकप्रणयतः प्रणतिं चकार // 10 // ____व्याख्या-भवति देवोवरे !-महादेवि ! तुष्टिं–प्रसादम् / उपागतायां प्राप्तायां, त्वयि / वस्तुवृत्या-यथार्थतः / किश्चन-किमपि। दुर्लभम-अलभ्यं / नो-नैव / भवति, त्वयि प्रसन्नायां सत्यां सर्वमेव सुलभमित्यर्थः / इतीत्थम् / उद्धतस्वरम्-तारस्वरं यथास्यात्तथा / उदीर्य-उच्चार्य / कृताञ्जलिः सः-धनदत्तः / साधर्मिकप्रणयत:-साधर्मिकप्रीत्या / प्रणति-प्रणामं / चकार // 18 // अथ पल्यै तत्कृतवरनिवेदनमाह-पल्यै इतिपल्यै न्यवेदयत शासनदेवतायाः, पश्चात्स वाक्यमथनिर्भरतोषितायाः। प्रागेव वक्त्रकमलं प्रभवत्प्रसादमानन्दतुन्दिलमिदं प्रकटीचकार // 109 // व्याख्या-अथ-वरप्राप्त्यनन्तरम् / निर्भरतोषिताया:-निर्भरमत्यन्तं तोषित्तायाः प्रसादितायाः / शासनदेवतायाः, वाक्यं-तव पुत्रो भविष्यति इत्येवं रूपं / स:-धनदत्तः / पयात, परल्यै, न्यवेदयतकवितवान् / प्रभवत्प्रसाद-प्रभवन् प्रसादः स्कातिर्यस्य तद , अत एव / आनन्दन्दिलम्-आनन्देन सन्दिर विकस्वरम् / पत्रकमल-भक्त्रं मुलं मलमिव वन / प्रार-पूर्वमेव / इदं-देवतावाद / 1 प्रकटीचकार-प्रसारमुखमेव दर्शमैनेव वरप्राप्तिमसूचयदित्यः 19 //