________________ [ 179 ] व्याख्या-प्रथमम्-पुरा / मान्यान्-पूष्यान् / साधून-मुनीन् / प्रतिलाम्य-समर्प्य / संमानितान् साधर्मिकान्-सत्कारितान् समानधर्मिणः / अमृतसन्निमभोज्यपेयैः-सुधास्वादुखाद्यपानैः / अभ्यवहार्यभोजयित्वा | स्वरुचिभिः-इच्छानुकूलम् / यत् , भुज्यते, तत्-तदेव / भोजनम् , अन्यत्-एतत्प्रतिकूलम् / जठरपूरणम्-उदरपूर्तिमात्रम् / आहुः-स्वोदरभरणमात्रमधममितिभावः // 10 // अथ तस्य दीनेभ्यो दानमाह-दौर्विध्येति-- दौर्विध्यसङ्कुचितमानसवृत्तिदीना-नामन्त्र्य भोज्यनिचयैरुपभोज्य सम्यक् / वासांसि निःश्वसितहार्यतमाञ्चलानि,दत्त्वा विसर्जयति सस्म निरीश्वराँश्च॥१०५॥ व्याख्या-स:-धनदत्तः / दौविध्यसङ्कचितमानसवृत्तिदीनान्–दौर्विध्येन दुर्भाग्यतया सङ्कुचिता - अनुदारा मानसवृत्तिः मनोभावो येषां ते तादृशाः ये दीनास्तान् कृपणानितियावत् / निरीश्वराँश्च-दीनानपि / आमन्त्र्य-समाकार्य / भोज्यनिचयैः-पक्वान्नादिखाद्यसमूहैः / सम्यक्-सुष्ठु, यथेच्छमितिभाव : उपभोज्य, निश्वसितहार्यतमाञ्चलानि-निश्वसितेन तत्तुल्येनातिसूक्ष्मेणापि वातेन हार्यतमानि कम्पनीयानि अतिशयसूक्ष्माणि अञ्चलानि प्रान्तभागा येषां तानि तादृशानि / वासांसि-वस्त्राणि / दत्वा-वितीर्य / विसर्जयति स्म-प्रत्यावर्तयत् / एतेन अनुकम्पादानेऽस्यादरः सूचितः // 15 // अथागमलेखनोद्योगमाह-आह्वाप्येति - आहाय्य मधु लिपिकर्मविधानदक्षान, स स्थूललक्षकुललक्षणलक्षणीयः / द्रव्यं वितीर्य जिननायकर्सप्रणीतसिद्धान्तशास्त्रलिखनानि समादिदेश // 106 // . व्याख्या-स्थूललक्षाललक्षणलक्षणीयः-'स्थूललक्षदानशौण्डो बहुप्रदे' इति हैमवचनाव स्थूलं लक्षयति आलोचयति महहानं ददातीतियावत् स्थूललक्षः, स्थूललक्षं दानशौण्डं यत्कुलं तस्य लक्षणेनौदार्यादिना लक्षणीयः स धनदत्तः / मडक्षु-द्रुतमेव, द्राङ् मनु मदि द्रुतमित्यमरः / लिपिकर्मविधानदक्षान्-लिपिकर्मणः लेखस्य यद्विधानं करणं तत्र दक्षान् निपुणान् , अतिशुद्धसुन्दराक्षरलेखकान् / आहाय्य-आकार्य / द्रव्यं-वेसनरूपं धनं / वितीर्य-दत्वा / जिननायकसंप्रणीतसिद्धान्तशाबलिखनानि-जिननायकसम्प्रणीतस्य सिद्धान्तशाखस्य लिखनानि लेखनानि / कुटादिरयमित्येके / लिखनीयम् , लिखनम् , लिखितन्यम् इषिक्रियारत्मसमुख्यवचनाक्खिनशब्दस्यापशब्दत्वं नाशनीयमिति / समादिदेश-माजातवान. // 106 // .