________________ [ 178 ], व्याख्या-अथ-अनन्तरम् / धामवसति:-तेजस आस्पदम् तेजस्वीतियावद / इभ्यः-स श्रेष्ठी / चैत्यालयात्-जिनमन्दिरतः / निरीय-निर्गत्य / सवेगम्-सरमसम् / गुरूणां वसतिम्-साधूनां स्थानम् , उपाश्रयमितियावत् / वाज-जगाम / तत्र-उपाश्रये / गुरुपादपयोजयुग्मम्-आचार्यचरणकमलयमलम् / प्रणम्प-अभिवन्ध / यथाक्रमम्-कममनतिक्रम्य / वन्धवन्द्यान्-नरेन्द्रादिवन्द्यानामिन्द्रादीनामपि वन्द्यान् परमपूज्यानितिभावः / साधून-मुनीन् / अवन्दत-प्राणमत् // 181 // अथ मुनिवन्दनोत्तरकृत्यमाह युग्मेन व्याख्यामिति दत्वेति च-- व्याख्यां निशम्य समभाव विधानधुर्या-माचार्यवर्यसुगुरोरमृतायमानाम् / कार्यः स्फुरतसुकृतबुद्धिभिरेषणीया-हारग्रहाय भगवद्भिरनुग्रहो मे // 102 // दत्त्वा क्षमाश्रमणमित्यवधानपूर्व, श्रेष्ठी निकेतनमुपेत्य कृतार्हदर्चः / साधून विहार्य परिहार्यविपर्ययेण, भोक्तु समारभत स स्वजनैः समेतः॥१०३॥ (युग्मम् ) व्याख्या-आचार्यवर्यसुगुरोः-गुरुगुणगणसमन्वितस्य सूरिप्रवरस्य / अमृतायमानाम्-अमृतसमानाम् / समभावविधानधुर्याम्-सामायिकादिविशिष्टसमताभावज्ञापनसमर्थाम् / व्याख्याम्-व्याख्यानम् / निशम्य-श्रुत्वा / स्फुरत्सुकृतबुद्धिभिः-स्फुरन्ती प्रकाशमाना सुकृते सत्कार्ये बुद्धिर्येषां तैः जामत्पुण्यमतिभिः / भगवद्भिः-श्रीमद्भिर्भवद्भिः / एषणीयाहारग्रहाय-द्विचत्वारिंशदोषवर्जितशुद्धाशनादिग्रहणाय / मे-मम, मयीत्यर्थः / अनुग्रहः-कृपा / कार्य:-विधेयः / इति–इत्थम् / अवधानपूर्वम्-सावधानम् / क्षमाश्रमणम्वन्दनम् , 'इच्छामि खमासमणो' इतिसूत्रप्रसिद्धम् / दत्त्वा-कृत्वा / निकेतनम्-निजगृहम् / उपेत्यउपागत्य / कृतार्हद:-विहितवीतरागपूजनः / स श्रेष्ठी, साधून विहार्य-प्रतिलाभ्य / परिहार्यविपर्ययेणअभक्ष्यादित्यागेन / स्वजनैः समेत:-परिजनपरिवृतः / भोक्तुं समारभत–उपाक्रमत // 102 // 103 // ___प्रथमं साध्वादिभ्यो वितरणे हेतुमाह-साधर्मिकेतिसाधर्मिकानमृतसंनिभभोज्यपेयैः, संमानितान प्रथममभ्यवहार्य मान्यान् / यद् भुज्यते स्वरुचिभिः प्रतिलाभ्य साधू-स्तद्भोजन जठरपूरणमन्यदाहुः॥१०४॥ .