________________ / 177 ] व्याख्या विचित्रमति:-विचित्रा इतरविलक्षणा भक्तिर्यस्य स तथा / वयना नीतिनिपुणः / विनयी-नम्रतासम्पन्नः, स श्रेष्ठी / त्रिधाऽपि-अङ्गाप्रभावात्मकभेदतनिप्रकारामपि / पूजाम्-अर्चाम् / चिरचय्य-जिनागमोतविधिना विधाय / त्रिविधं-त्रिवारमित्यर्थः / भूमिप्रमार्जनमपि-वस्त्राबलेन क्षितितलविशोधनमपि / प्रकुर्वन्-विदधानः / तिस्र:-त्रिसङ्ख्याकाः / प्रणती:-प्रगामान् / वितत्य-कृत्वा / अवस्थात्रयं-छद्यस्थ-केवलित्व-सिद्धत्वाख्यावस्थात्रयम् / निजमनोविषयं-सौवस्वान्तगोचरम् / वितन्वन्कुर्वन् / अस्यापि देवानवन्दतेत्यनेनान्वयः // 98 // आशात्रयेक्षणविवर्जनमादधानो, विन्यस्तदृष्टियुगलो जिनराजबिम्बे / वर्णादिकत्रितयभावनया प्रसक्तो, मुद्रात्रयं प्रकटयन प्रतिपत्तिपूर्वम्॥९९॥ ___ व्याख्या-आशात्रयेक्षणविवर्जनम्-पृष्ठं पार्श्वद्वयश्च, ऊर्ध्वमस्तिर्यक् चेति आशात्रयं तस्य ईक्षणमवलोकनं तद्विवर्जनम्, आदधानः-कुर्वन, जिनराजबिम्बाभिमुखमेवैकाप्रचित्तपूर्वकं पश्यन्नित्यर्थः / एतेनैकतानता सूचिता, अत एव / जिनराजविम्बे, विन्यस्तदृष्टियुगल:-स्थिरीकृतन्यनद्वितयः / वर्णादिकत्रितयभावनया-पठ्यमानस्तुत्यक्षरार्थप्रतिमादिस्वरूपविचारणया / प्रसक्तः-समन्वितः, एतेन चित्तवृत्तिशुद्विरुक्ता 'वन्नतियं वण्णत्थालंबणमालंबणं तु पडिमाइ' इति भाष्यम् / प्रतिपत्तिपूर्वम्-ज्ञानश्रद्धानपूर्वकम् / मुद्रात्रयम्योगमुद्रा-जिनमुद्रा-मुक्ताशुक्तिमुद्रारूपमुद्रात्रयम् / प्रकटयन्–प्रदर्शयन् / अस्यापि देवानवन्दतेत्यनेनान्वयः / / 99 // अत्युत्तमप्रणिहितित्रितयप्रणेता, देवानवन्दत जिनाधिपतीन् सुचेताः। कस्यानवद्यतमतां न सतां क्रमोऽयं, सम्पादयत्यविरतं हि विधीयमानः॥१०॥ व्याख्या अत्युत्तमप्रणिहितित्रितयप्रणेता-परमोत्कृष्टप्रणिधानत्रयविधाता, अकुशलानां मनोवाकायानां निरोधः कुशलानाश्च तेषां करणमितिप्रणिधानत्रिकम् / सः सुचेता:-सुमनाः सन् / जिनाधिपतीन् देवान् अवन्दत-देववन्दनं विदध इति / हि-यतः / विधीयमानः-क्रियमाणः / सताम्-सत्पुरुषाणाम् / अयं-प्रदर्शितः / क्रमः-रीतिः / कस्य-कस्य जनस्य / अनवद्यतमताम्-निष्कलुषताम् / अविरतम्-सततम् / न सम्पादयति-न करोति ? अपि त्ववश्यमेव करोति / अहंदुपासनया पापप्रणाश इति भावः // 10 // अथ तस्य साधुभक्तिमाह चैत्येतिचैत्यालयादव निरीय सवेगमिभ्यो, वव्राज धामवसतिर्वसति गुरूणाम् / तत्र प्रणम्प मुरुपादपयोजयुग्मं, साधन यथाक्रममवन्दत वन्द्यवन्याय // 10 //