________________ [ 176 ] धन्योऽहमस्मि यदुपागमदेष वेष-संस्कारशोभितसदाकृतिरत्र हर्मी / इत्यात्मशंसनपरेण वनावनेन, तस्मै फलानि ददिरे कुसुमानि चापि // 95 // व्याख्या-अहं, धन्यः-भाग्यवान् / अस्मि-तत्र हेतुमाह / यत्-यस्मात् / अत्र-उद्याने / वेषसंस्कारशोभितसदाकृतिः-वेषस्य नेपथ्यस्य यः संस्कारः मार्जनं तेन अथवा वेषः संस्कारश्च ताभ्यां शोभिता सदाकृतिर्यस्य स तादृशः / एष हर्मी-श्रेष्ठी। उपागमत-आगतवान् / इति-इत्यम् / आत्मसंशनपरेणआत्मनः स्वस्य शंसने प्रशंसने परेणाभिमुखेन / वनावनेन-वनस्योद्यानरयावनेन पालकेन, मालाकारेणेत्यर्थः / तस्मै श्रेष्ठिने / फलानि कुसुमानि चापि ददिरे-दत्तानि // 15 // लात्वा फलानि विपुलानि स मंजुलानि, पुष्पाणि गन्धकलितानि धनेश्वरोऽपि। हयं समेत्य सकलं विनिवेष्य पात्रे, स्नात्वा जलैः शुचिरुपाक्रमतार्हदर्चाम् // 96 // ___व्याख्या-म:-धनेश्वरः धनदत्तः / अपि विपुलानि–महान्ति प्रचुराणि च / फलानि, मञ्जुलानिमनोहराणि, गन्वेनामोदेन कलितानि समन्वितानि, सुगन्धीनि इत्यर्थः / पुष्पाणि, लात्वा-आदाय / हयंगृहं / समेत्य-आगत्य। सकलं-सर्व, तत्पुष्पं फलञ्च / पात्र-स्थालादिरूपे भाजने / विनिवेश्य- कृत्वा / जलैः स्नात्वा-अत एव शुचिः-पवित्रः सन् / अर्हताम्-जिनेश्वराणाम् / अर्चाम्-पूजाम् / उपाक्रमतप्रारभत / / 96 / / सद्मस्थिताऽर्हतमहाप्रतिमासपर्या, कृत्वा यथावदथ संघजिनालयेऽगात् / नैषेधिकीत्रयपुरस्सरमात्मनैव, दक्षः प्रदक्षिणविधिं त्रिविधं विधाय // 9 // व्याख्या-सदस्थिताहतमहाप्रतिमासपर्या-सद्मनि स्वगृहें स्थिता स्थापिता या आर्हती अर्हतां जिनेश्वराण महाप्रतिमा तस्या. सयाँ पूजां / यथावत्-यथाविधि / कृत्वा, अथ-अनन्तरं। संघजिनालयेसंघस्य जिनालये चैत्ये / अगत् -गतवान् / तत्र दक्षः- कुशलः सः। नैषेधिकीत्रय पुरस्सरम्-नषेधिकीनां स्वगृहजिनमन्दिरजिनद्रव्य पूजासावद्यव्यापारनिनिर्वृत्तानां त्रयं पुरस्सरं यथास्यात्तथा तत्पूर्वकमित्यर्थः। आत्मना-स्वयमेव / त्रिविधि-त्रिवारमित्यर्थः / प्रदक्षिणविधि-प्रमुप्रतिमादक्षिणभागादारभ्य प्रदक्षिणां / विधाय--कृत्वा / अस्याने देवानवन्दतेत्यनेनान्वयः / पूजां त्रिधापि विरचय्य विचित्रभक्ति-भूमिप्रमार्जनमपि त्रिविधं प्रकुर्वन् / तिस्रो वितत्य विनयी प्रणतीर्नयज्ञो-ऽवस्थात्रयं निजमनो विषयं वितन्वन् // 98