________________ [ 175 ] व्याख्या-तददितां-तया सत्यभामया उदितां कथिताम् / इमां-सद्योवर्णितां / महार्थी-महान् इवरातिशायी अर्थोऽभिधेयः यस्यास्तां सारवतीम्, अत एव विदितां-ख्यातां / शिक्षा-सन्मतिम् / तथेतितथास्त्विति / आदाय-स्वीकृत्य। एषः-प्रस्तुतः / नैगममहापुरुषः-नैगमेषु वाणिजेषु महापुरुषः पुरुषश्रेष्ठः "नेगमो वाणिजो वणिक्” इत्यमरः / तदाप्रभृति-तदारभ्य। सुगुरुपदेशदेशीयम्-सुविहितगुरूपदेशतुल्यम् / तत्-पूर्वोक्तं / सर्व, यथावत्-तात्विकेन रूपेण / आरचयति स्म-करोति स्म / सदुपदेशधनुसारयथार्थवर्तनशीलो महापुरुष इति भावः // 92 // अथ तदुक्त्यनुकूलक्रियाप्रकारमेवाह-आहुयेतिआहूय मालिकमसौ द्रविणं व्यतारी-दिच्छातिरिक्तमविलम्बपरो महेच्छः / पुष्पाणि मे प्रतिदिनं दिवसोदयेऽप्याss-नीयार्पयेरिति पुनर्धनवानुवाच // 93 व्याख्या-अविलम्बपर:-क्षिप्रकारी / असो, महेच्छ:-महाभिलाषः श्रेष्ठी / मालिक-मालाकारम्। आइय, इच्छातिरिक्तम्-इच्छायाः अतिरिक्तमधिकं / द्रविणं-धनम् / व्यतारीत्-अदात, पुनः ! धनवान्इभ्यः सः / दिवसोदये-प्रभाते / प्रतिदिनमपि पुष्पाणि आनीय मे-मह्यम् / अर्पये:-ददेरित्युवाचआदिष्टवान् // 13 // उत्सूरमारचयिता कुसुमावचाय-मारामिकः स विदनिदधत् फलानि / ध्यात्वेति धार्मिकशिरोमणिरेष शप्यो-स्थायं वनीं स्वयमियाय सलीलगत्या // 94 व्याख्या-सः, आरामिकः-मालिकः। फलानि-रात्रौ तरोः पतितानि। निदधत्-मंगृहणन् / कुसुमावचायं-पुष्पचयनं / विदधन्–कुर्वन् / उत्सरं-सायंकालं 'दिनावसानमुत्सूरः' इति हैमः / यद्वा उदुच्चैः सूरः सूर्यः यथास्यात्तथा। आरचयिता-कर्त्ता, प्रभातकालं व्यतिक्राम्येदित्यर्थः। इति-इत्थं / , ध्यात्वा एषः, धार्मिकशिरोमणिः-धार्मिकेषु शिरोमणिः श्रेष्ठः / स्वयम्-आत्मनैव / शय्योत्थायंशय्यात उत्थानं कृत्वा उत्थायैव, प्रभातकाल एव, एतेन पुष्पानयने अत्याऽऽदरः पूजायाश्चा पूर्णभक्तिभावसूचितः / सलीलगत्या--सलीलया सविलासया हर्षसंभिन्नया गत्या। वनीम्-उद्यानम् / इयाय-जगाम / नहिं देवसेवा मानसौत्सुक्यं भृत्यकृत्यमप्यपेक्षते, तत्र स्वस्यैव दासत्वेनार्पणादिति भावः // 94 // . श्रेष्ठिगमनेन मालिकप्रवृत्तिमाह-धन्योऽहमिति--